पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

वसुधाराधिकारः] पूर्वार्धे षड्विशः पटलः । ओं समये! सौम्ये! समयङ्करि ! महासमये ! नमः ठठ ।

बद्ध्वा समयमुद्रां तामूर्ध्वमुत्क्षिप्य दर्शयेत् ॥ १६ ॥
तथैव वज्रमुद्रां च दर्शयेत् साध्यविद्यया । 

ततो हिरण्यपात्रादौ गन्धपुष्पाम्बुपूरिते ॥ १७ ॥ मूलं विन्यस्य संपूज्य स्वशिरः प्रोक्षयेत् तु तैः। पूजाद्रव्यं तथा स्थानमवोक्ष्यार्ध्य॑जलैस्तथा ॥ १८॥ अधैः कल्पतरोर्ध्यात्वा रत्नसिंहासनाम्बुजे । ओं श्रिये, श्रीकरि'! धनकरि! धान्यकरि! एह्येध्यागच्छ भगवति वसुधारे! ठठ। अनेनावाहयेद् देवीं वक्ष्यमाणस्वरूपिणीम् ॥ १९ ॥ अथ सकृतौ- हेमनिभा पीवरकुचकलशां चन्द्रमुखीमलिकुलरुचिकेशी कञ्चुलिकाङ्गीं कुवलयनयनां चारुभुजां तनुतरवरमध्याम् ।

हेमकिरीटां कनकमणिमयैसभरणैः शुचिनिवसनगन्धै-

रश्चितमाल्यैरधिगतवपुषं कान्तिमती प्रणमत वसुधाराम् ॥ २० ॥ कान्तिमती , तन्वीति कंचित् ।

तिष्ठन्ती विनिधायाङ्घ्रिं वसुवर्षिघटीमुखे ।
आकुञ्चिताङ्घ्रिजानुस्थवामपाणिस्थडाडिमाम् ॥ २१ ॥
रत्नवर्षिषटीगर्भमुत्पलं चापरे करे।
स्यन्दमानार्थधाराढ्यनालनिर्गतवल्लरीम् ।। २२ ॥
इत्थं ध्यात्वा तु तां देवीं मूलेनावाह्य मण्डले । 

मूलमन्त्रेण चाार्घ्याद्यैरुपचारैर्यजेत् क्रमात् ॥ २३ ॥

अमिताभावयं बुद्धं कल्पवृक्षमधोम्बुजे ।
पीतवर्णं ध्याननिष्ठं शिखिनं मुण्डितं स्मरेत् ॥ २४ ॥

१. 'ये ठठ' २. 'थ' ख. ग. पाठः. ३. 'न', ४. 'यु' ख. पाठः.