पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

इंशानशिवगुरुदेवपद्धतौ जपेत् तु पूर्वसेवार्थ साध्यमन्त्रं त्रिलक्षकम् । सन्ध्यासु चार्धरात्रे च जपपूजाविधिः स्मृतः ॥ ६ ॥

विशुद्धदेहः शुद्धात्मा मौनी शुद्धाम्बरादिकः । 

चन्दनेनार्धरात्रे तु बिम्बमालिप्य वर्तुलम् ॥ ७ ॥

पञ्चबुद्धान् प्रणम्यादौ बोधिसत्त्वाष्टकं तथा ।
अक्षोभ्यवैरोचनको रत्नसम्भवमेव च ॥ ८ ॥ 

अभितापं तथामोघसिद्धिं तारादिनामभिः ।

पद्मपाणिश्च मैत्रात्मा गगनादिगजाद्वयः ॥ ९॥
समन्तभद्रसंज्ञश्च तथा यक्षाधिपाह्वयः ।।
ततः स्यान्मञ्जुघोषाख्यस्तथा विष्कम्भकाह्वयः ॥ १० ॥
त्रांबीजोत्थं हिरण्यादि ध्यायेदतिमनोहरम् । 

तस्योपरि तथारामं कल्पवृक्षरलङ्कृतम् ॥ ११ ॥ तन्मध्ये मणिभिर्दिव्यैश्चितं हैमस्थलं स्मरेत् । तत्र यङ्कारजं पद्मं स्मृत्वा तत्र स्थितः स्वयम् ॥ १२ ॥ 'ओं स्वभावशुद्धाः सर्वसमाः । सर्वशुद्धोऽहम्' इति मूर्धादिपादान्तं त्रिवारं विन्यसेत् सुधीः।

मैत्री सुधीषु सर्वेषु करुणां दुःखितेषु च ॥ १३ ॥
पुण्यशीलेषु सन्तोषमुपेक्षां पापकर्मसु । 

भावयेत् प्राणिवर्गेषु सदा सन्तुष्टमानसः ॥ १४ ॥

ओं हुं त्रां आं खं हुं -

अङ्गुष्ठादितलान्तं तु त्रिवारं विन्यसेदिति । ओं सर्वतथागतानां सर्वसिद्धयः संपद्यन्ताम् ।

सर्वतथागताचाधितिष्ठन्ताम् ।

नाभिहृन्मस्तकेष्वेतैः क्रमात् कुर्यात् त्रिरञ्जलिम् ॥ १५ ॥

ओं वसुधारे! अभितिष्ठस्व माम् ।

अनेनाञ्जलिना मूर्ध्नि न्यस्तेनैनां प्रणम्य । १. 'कम्', २. 'ल' क पाठः. ३. 'हे' क ग. पाठः.