पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

वसुधाराधिकारः] पूर्वार्धे षड्विशः पटलः । मन्त्रितेष्वादिवेधेन पलायन्त्यरयो मृगाः । चोरव्याध्यादिभिश्चासौ जपन् ध्यायन् न पीड्यते ।। ८६॥ निरावरणमेवैनां खड्गदुर्गां तु साधयेत् ॥ ८६३ ॥

इत्थं प्रोक्ता दुर्गामन्त्राः सकलविषगददुरितभयशमना .

यस्त्वेतेषामेकं वेष्टं विधियजनहवनमननजपपरः । संसाध्यादौ भक्त्या युक्तः प्रतिदिवसमपि भजति यदिह शिवां

मत्ताक्रीडा नित्यं लक्ष्मीः श्रयति खलु तमुपगतसुखविभवैः ।। मत्ताक्रीडा । 

इति श्रीमदीद्यानशिवगुरुदेवपद्धतौ तन्त्रसारे पञ्चविंशः पटलः । अथ षड्विंशः पटलः। ताराम्भसी सुधाशब्दः सोष्टोऽग्निरथ ठद्वयम् । कथितो वसुधारायां मूलमन्त्रः स्वाक्षरः ॥ १ ॥

साग्निहोत्रोऽम्बैकोऽथ स्यात् ततो वाली हैरान्गः । 

श्रीकरीति त्रयो वर्णा धनधान्यपदे ततः ॥२॥ पृथक् करिपदोपेते वह्नेर्जाया च कीर्तिता ।

मन्त्रोऽयं वसुधारायाः साध्यसंज्ञस्तु सिद्धिदः ॥ ३ ॥
पूर्वोऽत्र मूलमन्त्रः स्यात् सप्तार्णस्तेन पूजयेत् ।

र् द्वितीयं साधयेन्मन्त्रं जपहोमक्रियादिभिः ॥ ४ ॥ ऋषिर्बुद्धमुनिश्च्छन्दश्चोष्णिगप्यतिशक्करी । देवता वसुधाराख्या लक्ष्मीविश्वाभिपूजिता ॥ ५ ॥ ओं वसुधार! ठठ हृदयम् । ओं श्रीः वसु ठठ उपहृदयम् । ओं सुश्रिये ठठ उपहृदयस्योपहृदयम् । ओं वसु ठठ ललाटे । ओं वमुश्रिये ठठ शिरसि । ओं वसु स्वाहा वषट् शिखायाम् । ओं वसुस्वाहा वौषट : अशेषाङ्गकवचम् । ओं वसु स्वाहा फट् अस्त्रम् । .... "ष्ट्रो' ख. पाठः. २. 'ब' क... पाठः.