पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

प्रपञ्चगणपतिः]

पूर्वार्धे पञ्चदशाः पटलः । 

इति पूर्वसेवनविधौ चरिते मनुरेष सिद्धिमधिकां तनुते ।

प्रतिवासरं यजनहोमजपैर्भजतां भवन्त्यभिमतान्यचिरात् ॥ १८ ॥
अथ लिख्यतेऽस्य तु विधानवरं स्मरणेन सिध्यति च यस्य मनुः ।
प्रविलिख्य चित्रतरचित्रपटं विभवे यजेत् सति न चेन्मनसा ॥ १९ ॥
अथ चिन्तयेदुदधिमिक्षुरसं लहरीतरङ्गशतरम्यतरम् । 

तिमिनक्रशङ्खकुलमीनगणैः सतिमिङ्गिलाकुलजलोल्लसितम् ।। २० ॥

पुलिनं च मध्यभुवि तस्य महन्मणिपर्वतं च शिखरोपचितम् । 

परितस्तमालवनतालशतैः सरलैश्च सालघनसारनगैः ॥ २१ ॥

सकदम्बनिम्बनिकुरुम्बयुतैरपि नालिकेरकरकेलिशतैः । 

वरकुण्डहालिनिचुलाम्रवणैः कदलीवनैश्च रमणीयतटम् ॥ २२ ॥ नवपूगपूगगतनागलताकुलसल्लकीलवलिकामरिचैः । सलवङ्कबिल्वबकुलैश्च मिलन्मदचञ्चलीककुलनादकलम् ॥ २३ ॥ सहकारकोरकरसास्वदनोन्मदकोकिलस्वनसनाथमरम् । चमरैरपि स्रमरकैश्चरितं सुरकिन्नरासुरवराध्युषितम् ॥ २४ ॥ नवपल्लवाकुलगुलच्छमिलत्कलिकोन्मिषत्कुसुमभारततीः ।

व्रततीभिरत्र दधतीभिरलं समलङ्कृतं खगकुलाकुलितम् ।। २५ ॥
कुवलयैः कमलैः समलङ्कृतं समरसं सरसामपि सारसैः ।
कचन कैरवकैर्विकचोत्पलैः कुरवकैः कलहंसकुलैरपि ॥ २६ ॥ तटपरिस्रुतनिर्झरशीकरोत्करभरैर्गजदानमनोहरैः ।
चलितचन्दनचम्पककेतकीपरिमलैरनिलैरपि सेवितम् ॥ २७॥ सकलशीतकरोदयचन्द्रिकाविशदतारकजालकमेकतः । 

गगनमुद्यदुदंशुमदंशुना विलसितं क्वचिदम्बुवहैरपि ॥ २८ ॥

समधुमाधवशुकशुचिश्रिते नभसि युक्तनभस्यमिधोर्जयोः ।
सहसि सङ्गि सहस्वसमं तपः कुसुमसंपदलम्भि तपस्यता ॥ २९ ॥
ऋतुगणेन समानगुणोदयं सततसंभृतकौसुमसम्पदा । 

समधिकं समलङ्कृतकाननं कनकचारुतट प्रविचिन्तयेत् ॥ ३० ॥ १. 'चिस्मितौ न', २. 'यस्यताम् । ' ख. पाठ :.