पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ईशानशिवगुरुदेवपद्धतौ [मन्त्नपादः प्रणववाग्भवयोरितरत् पुरस्तदनु मागिरिजास्मरवीजयुक् । अवनिबीजगतं भुजमध्यमं शशिकलाढ्यसवामविलोचनम् ॥ ९ ॥ तदनु दण्डयुतो भुजमध्यमो गणपतेः खलु बीजवरो ह्ययम् ।

षडिति बीजवराणि समुद्धरेदखिलसिद्धिकराणि यथाक्रमम् ॥ १०॥
उदकमक्षियुतं कथितं ततः पवनसारथिरूढविलोचनम् ।
सनयनावथ खड्गिभुजङ्गकाविति पुरोर्णचतुष्टयमुद्धरेत् ॥ ११ ॥

हिणाश च हषः हष डट् सर्वलोकहृदयं मे वशं कुरु ठंठ ॥ श्रुतिवेदवेदगुणभोगिरसैर्गणितैः स्ववर्णनिकरैस्तु मनोः ।

पृथगुक्तबीजसहितैस्तु भवेदथ सर्ववित्प्रमुखजातियुतैः ॥ १२ ॥

सर्वज्ञाय नित्यतृप्ताय अनादिबोधाय स्वतन्त्राय अलुप्तशक्तये अनन्तशक्तये एवं क्रमेण स्वार्णैरायोज्य षडङ्गानि भवन्तीति यावत् । करशुद्धिमत्रमनुना तनुतां निदधात्वथाङ्गुलिषु चाङ्गमनून् । तलमध्यके तदनु चासेरमनुं लिपिवर्ण मूलपदवञ्च तनौ ॥ १३ ॥ तत्राङ्गुष्ठादिकनिष्ठान्तं हृदयादिनेत्रान्तानङ्गमन्त्रान् विन्यस्यास्रमन्त्रं च हस्ततले तदनु लिपेरवर्गाक्षरादिकानि षड्बीजानि त्रिष्कृत्वो मुखे विन्यस्य कचटतपयादीनि षड्वर्गाणि मूलमन्त्रस्य विकारादीनि षट् पदानि भुजद्नयपादद्वयपार्श्वद्वयेषु पृष्ठनाभिहृदयेषु च विन्यस्यात्मानं मातृकाम्बुजगतं सशक्तिकं गणपतिं ध्यायेदिति यावत् । हृदयादिकेप्वय षडङ्गमनून् निजशस्त्रतोऽपि च दिशां कलनम् । पुनरखतो ज्वलितवप्रविधिं परितस्तु तर्जनिकया रचयेत् ॥ १७ ॥

अपि वामदेवमृषिमस्य तथा प्रवदन्ति केचन तथा गणकम् । 

तदनन्तरापि च निवृत् कथितो भगवान् प्रपञ्चगणपोऽधिपतिः ॥१५॥ गुरुमुखाप्तमनुं तदनुज्ञया गिरिनदीतटदेवगृहादिके ।

क्वचिदमीष्टमनोहरलक्षणं त्वभिनवं प्रविधाय मठं ततः ॥ १९॥
समुचिताहृतपूजनसाधनो विहितनैत्यककर्म न हापयन् ।
जपतु लक्षमतन्द्रिधीर्मनुं व्रतिजनोदितशस्तमिताशमः ॥१०॥ १. 'चि', २. 'स्व' क. पाठ: