पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

॥श्रीः॥ ईशानशिवगुरुदेवपद्धतिः श्रीमदीशानशिवगुरुदेवमिश्रविरचिता। (द्वितीयो मन्त्रपादः।) अथ पञ्चदशः पटलः। वन्दे सिन्दूरसन्दोहसुन्दरारुणरोचिषम् । स्तम्बेरमाननं देवमिन्द्रादिसुरवन्दितम् ॥ १ ॥ महदहङ्कृतिखानिलकानलक्षितिगुणोदयशक्तिविजृम्भितम् । जगदिदं गणसंज्ञितमस्य यद् गणपतिः पतिरेष शिवः स्वयम् ॥ २ ॥

विकुरुते निखिलं खलु शक्तितः पुरुष एष शिवः स चिकीर्षया । 

तदवनं च ससंहृतिमिच्छया वितनुते तनुभेदविलक्षणः ॥ ३ ॥ हरिविरिञ्चमहेशमुखाः सुरा जगति विघ्नगणैरपि निध्निताः ।

गणपतेर्यजनं खलु तन्वते यदत एव विभुर्हि विनायकः ॥ ४ ॥
स खलु प्रपञ्चमखिलं व्यसृजत् पुरतोऽवनाय किल तस्य विभुः । 

अथ भूतये च जगतामतनुस्तनुमास्थितो गजमुखीमभवत् ॥ ५ ॥ समुपोढविश्वनिखिलाध्वर्गणां गुणधातुबीजरवषट्कयुताम् ।

परमाङ्गषट्कविहिताङ्गविधिं वरमूर्तियुङ्मिथुनषट्कमयीम् ॥ ६ ॥ 

जगदेकभूतिजननीमजरां कमलाम्बुजाक्षगिरिजागिरिशैः ।

रतिमन्मथावनिवराहयुतैः परितो गिरा च चतुरास्यवृताम् ॥ ७ ॥
स्मरन्नि वा समनुं सविधानकं प्रतिदिनं तमिमं गणनायकम् । 

अपचितिं प्रविधाय जपेच्च यः स खलु सर्वसमीहितभाजनम् ॥ ८ ॥ ३. 'वः' क. पाठः. १. 'ति', २. 'गु' ख, पाठः G. P. T, 1214, 500, 24-11-19,