पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/११९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ईशानशिवगुरुदेवपद्धतौ मन्त्रपादः

द्विजकुसुमैर्लभेत कुलपुष्टिमनित्यकर्जेजेयेदरीन् 

घृतसितसर्षपैर्गदहरं सहितैर्हरितालिकाङ्कुरैः ।। ६४ ॥ प्राग्वत् । दुर्गाहृदयाधिकारः। अमलपदवीप्सितादुपरि शूलिनि दुष्टपदे ग्रहान्वित ंस्तदनु च पारबाणमथोऽस्त्रमिति त्रिदशाक्षरो मनुः । ओं शूलिनि ! दुर्गे! हुं फट् । ओं शूलिनि ! वरदायै हुं फट् । ओ शूलिनि! विन्ध्यवासिनि ! हुं फट् । ओं शूलिन्यसुरमर्दिनि ! युद्धप्रिये ! त्रासय त्रासय हुं फट् । ओं शूलिनि ! देवसिद्धपूजिते ! नन्दिनि ! रक्ष रक्ष महायोगेश्वरि । हुं फट् । इति ह तदङ्गकैर्भवति दीर्घतमा मुनिरुत्तरा ककुप् .. स्वयमथ शूलिनी यदधिदैवतमक्षरलक्षकं जपेत् ॥ ६५ ।।

गुरुमुखलब्धमनुर्नियताशनवाङ् नदीपतिसङ्गमे _

त्वपरमुखेऽथ शिवेऽप्यथवा वनमञ्जरीसुरभौ गिरौं ।

जपतु यजेदपि तां हरिपीठगतेऽम्बुजेऽङ्गवृतिर्भवेद् 

वसुदलशक्तिवृतिस्त्वथ हेतिवृतिर्दिशामधिपैर्वृतिः ॥६६॥ वनमञ्जरी । तत्र वज्रासनाख्यं तदासनं स्वाख्यया यजेत् ।

प्रकृतिं त्रिगुणैर्बिम्बमूर्तिभिः पङ्कजं तथा ॥ ६७ ॥

औं दुर्गायै, ओं वरदाय, ओं विन्ध्यवासिन्यै, ओं असुरमर्दिन्यै, ओं युद्धप्रियायै, ओं देवसिद्धपूजितायै, ओं नन्दिन्यै, ओं महायोगेश्वर्यै इत्यष्ट शक्तयः। - अरिदरखड्गगदाशरकार्मुकशूलपाशकरां शिवां शतमखनीलरुचिं मुकुटादिविभूषणैः समलङ्कृताम् । अयुगदृशं सुमुखी मृगराजगतां लसत्कनकाम्बरां स्मरतु जपादिषु तामथवा सचतुर्भुजां कनकप्रभाम् ॥ प्राग्वत् । 1. 'नएपिथी' १. 'तः' ख. पाठः. -