पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/११७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

هؤ(मन्त्रपाद:

ईशान शिवगुरुदेवपद्धतौ आद्यैः क्षान्तैश्व सिश्चेत् क्रमपरिपठितैरायुरारोग्यलक्ष्मी- र्विन्देन्नश्यन्ति विघ्नग्रहरादविपदः साधयेदप्यभीष्टान् ॥ ४८ ॥ वनदुर्गाधिकारः । काळः खं सौक्ष्यथोमज्जा स्यान्मर्दनिपदं मनुः ।

द्वयान्तोऽष्टवर्णोऽयं दुर्गाहृदयसंज्ञितः ॥ ४९ ॥

ओं महिषहिंसिके नमः । महिषशत्रो ! शार्वि ! हुं फट् ठठ । महिषं हेषय हेषय । हुं महिषं हन हन देवि ! । हुं महिषसूदनि ! फट् । अङ्गानीमानि पञ्च स्वैर्जातिभिः सह कल्पयेत् । ऋषिः स्याच्छाकवत्साख्यश्छन्दः प्रकृतिरुच्यते ॥ ५० ॥

दुर्गेव देवता स्वार्णलक्षाभ्यासेन सिध्यति । 

कृष्णाष्टम्यामुपोप्याथ नवम्यादि जपेदिमम् ॥ ५१ ॥ जलभवखेटके धनुरपीह गदां दधतां भुजैः शिवां स्थपदनन्दकौ शरमथाङ्कुशक मरुणाम्बरादिकाम् ।

मरकतरोचिषं त्रिणयनां मकुटादिविभूषितां स्मरे

न्महिषशिरोगतां महिषमर्दनिका मखिलार्थसिद्धिदाम् || सिद्धिदा 1 लब्ध्वा मन्त्रं गुरोः स्नातः शस्तदेशाश्रयाशनः । निर्वर्त्य सन्ध्यां पूजार्थं तद्गृहद्वारान् यजेत् ॥ ५३ ॥ 1 तद् यथा – दुर्गापरिवारेभ्यो नम इति सर्वतः । क्षेत्रपालाय नमः ॥ चण्डिकायै नमः | अम्बिकायै नमः । वास्तुपुरुषाय नमः । इत्युभयतः । द्वारश्रियै नम इत्यूर्ध्वोदुम्बरे । नाराचमस्त्रं क्षिप्त्वान्तः प्रविश्यासीन आसने ।

कृतात्मशुद्धिर्न्यस्ताङ्गः स्वमूलाङ्गार्ध्यशोधितैः ॥ ५४ ॥
द्रव्यैर्गणेशं च गुरुं यजेदप्यासनादिकम् ।

ओं संप्रकृतये नमः इत्यधो भूमेः । ओं वं वज्रासनाय नम इति सिंहासनम् । ओं अं आर्यायै । ओं ऋ प्रलयायै । ओं ॠ महाप्रलयायै । ओं एं सृष्टये नम इति सिंहपादचतुष्टयम् । 1 I ख. पाठ:. २. 'साध्ये धम" क. पाठः.