पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

अथ पञ्चविंशः पटलः ।

श्रोत्रं ते युगलं साक्षः श्वेतो लाङ्गलिसंस्थितः ।
काणपींश्च सकर्णोऽग्निः साक्षी श्वेतश्च किं पदम् ॥ १ ॥

स्वपिषीति भयं शब्दो मेऽन्ते स्यात् समुपस्थितम् । शडि यक्यं फयक्यं हाटन्मे भगवति यफ श ठठ । मन्त्रोऽयं वनदुर्गायाः स सप्तत्रिंशदक्षरः ॥ २ ॥

अत्यारण्याह्रयोऽस्यर्षिरत्यनुष्टुप् च कीर्तिता ।। 

छन्दः स्याद् वनदुर्गैव देवता सकलेश्वरी ॥ ३ ॥ ऋतयुगभोगिभिर्वसुरसैश्चतुरः क्रमशः प्रमितनिजार्णकैस्तु रचयेत् पृथगङ्गमनन् ।

षडपि च जातिभिर्वपुषि तान् पृथगर्णगणान्

पुनरपि विन्यसेत् स्वहृदयादिषडङ्गमतः ॥ ४ ॥

द्विचरणसन्धयों दश गुदं भगपार्श्वयुगा

न्युदरहृदौ स्तनौ गलमथांसश्रृंगं भुजयोः ।

षडपि च सन्धयो वदनघोणदृशः श्रवणा___ 

विति ह पृथग् भ्रुवोश्च निदधातु च केऽर्णगणम् ॥ ५ ॥

गुरुवरदीक्षितो जपतु लक्षमसौ विधिवत्

तिलचरुगोघृतैरयुतमग्निमुखे जुहुयात् ।

प्रतिदिवसं यजेदपि जपेच्च गुरौ शिवयोः
स भवति भक्तिमान् यदि हरावपि सिद्धिमियात् ॥ ६ ॥

___ मन्त्रोद्धाराद्यधिकारः । अथ धृतौ --- ध्यायेदुद्यानं कुसुमितलतावेल्लितान्मत्तभृङ्गं नानापुष्पाढ्यैर्हिमगिरितटे कल्पवृक्षरुपेतम् ।

तन्मध्ये पीठं नवमणिमयं सिंहपादं च दिव्यं

रक्तं तत्राब्जं स्मितवसुदलं कर्णिकाकेसराढ्यम् ।। कुसुमितलतावेल्लितम् ।

१. यो', २. 'स्युदद', ३. 'युगलं भु', ४, लि। तत्र' स्व. पाठ..

-