पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/११०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

त्रैष्टुभादिदुर्गापञ्चकम् ] पूर्वार्धे चतुर्विंश: पटलः । उदन्वद्गामिन्यां विधिवदवगाह्याथ हृदये स्मरन्नग्निं मन्त्रं जपतु च निमग्नो दशशतम् ।

भवेत् प्रायश्चित्तं सकलदुरितघ्नं दशदिनैः
श्रियं पश्येद् देवी सितकमललक्षाज्यहवनात् ॥ ७८ ॥
धान्यैर्धान्यं भवेद्धुत्वा कुब्जैर्बिल्वैः श्रियं धनम् । 

गोमयाज्यमयीं जुह्वद् गुलिकां पशुमान् भवेत् ।। ७९ ।।

सिद्धार्थमधुरैर्श्यं तथा वटसमिच्छतैः । 

शमीसमिद्भिः शान्तिः स्यादन्नमौदुम्बरीहुतात् ॥ ८० ॥

क्षीरे सवर्णवत्सायाः शुक्लायाः पायसं पशोः ।

हुत्वा शेषाशनो मासैस्त्रिभिर्विन्देच्छ्रियं सुखी ॥ ८१ ॥

त्रिसन्ध्यं यदृश्यं जपतु चिरमायुर्गदहरं

श्रियं रक्षां पुत्राञ् जयमपि च दैवात् स लभते ।

समृद्धान् सर्वार्थानपि स लभते मोक्षमथ चेत् 

सहस्रं निष्कामो हृदयकमले ध्यानपरमः ॥ ८२ ॥

चोरादिभिर्न बाध्येत तं जपन् यदि गच्छति । .
अभ्यस्ताः शकः क्षिप्ताश्चोरव्यालादिभञ्जनाः ॥ ८३ ।। 

शुद्धो वाचा जपेन्मन्त्रमशुद्धो मनसा जपेत् । ध्यायन् दुर्गा तथा देवमग्निं चाभीष्टमाप्नुयात् ।। ८४ ॥

इति खलु जातवेदसमनुश्रुतिसारतया

फलति हि वाञ्छितार्थमखिलं स्मरतोऽपि सदा ।

य इह जपादिभिर्भवति तं स भवेन्न चिरात् 

त्रिभुवनसम्पदाख्यकमलामुखनत्कुटकम् ॥ ८५ ॥

इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे

त्रैष्टुभादिपञ्चदुर्गापटलश्चतुर्विशः।