पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

[ ईशानशिवगुरुदेवपद्धतौ मन्त्रपादः

कनकवसनां चन्द्रापीडां स्मरञ्जुहुयाज्जले

सलिलकुसुमैर्गन्धैर्विन्देदसौ हरिणीं श्रियम् ॥ ३६ ॥ हरिणी । स्फटिकधवलां शुक्लाकल्यां महौघजले स्थिता___ मभयवरदे चाबिभ्राणां सपाशमथाङ्कुशम् ।

मधुरमिलितै हद् वृष्टिं स्मरन् नवतण्डुलै

र्जपतु च जले स्थित्वा नाभेर्मिते लभतेऽयुतम् ॥ ३७॥ अयोमुष्टिगदाहस्ता पीता पीताम्बरादिका । माहिषाक्तपुलाकाक्षैः स्तम्भयेत् संस्मृताहुतैः ।। ३८ ॥

सशूलमुसला धूम्रा ह्येषा राजीघृताप्लुतैः । 

निम्बपत्रैः सकार्पासबीजैर्षिद्वेषयेद्धुतात् ॥ ३९ ॥

सैव तर्जनिकाशूलहस्ता मरिचमाहिषैः ।
विषपत्रैश्च राजीभिर्होमादुच्चाटयेदरीन् ॥ ४० ॥
शूलहस्ताग्निसङ्काशा मरीचोन्मत्तराजिभिः ।
तीक्ष्णतैलान्वितैर्होमाद् दुर्गेषा मोहयेत् परान् ॥ ४१ ॥ 

असिगुणकरां कृष्णां ध्यायन्नरुष्करजार्दिता ___

रिपुहसमिधा हुत्वा शत्रून् नयेद् यमसादनम् ।
मरिचभसमिद्राजीराजीघृताप्लुतहिङ्गुभि

र्विषतरुभवैः काष्ठैश्चैत्यैर्निशास्वरिमारणम् ॥ ४२ ॥

विषाक्षशितिमत्तजा महिषराजितैलोक्षिता

जुहोतु समिधः पृथग् दशशतं तु कालाष्टमीम् ।

प्रभृत्यपि दिनान्ततः परिलुठन् स पृथ्वीतले

विलापपरमो बजेद् यमपुरं तु पक्षादरिः ॥ ४३ ॥ पृथ्वी । प्रतीच्य कुसुमान्विते मरिचचूर्णमिश्रे जले रिपोरुडुतरूद्भवां प्रतिकृतिं रुषा कथयेत् । 1. णात्रि' क., 'जीवधि' ख. पा. २. 'न' क. स. पाठ:. . 'रि' क. न. पा. ४. 'जिष्णु' ग. पार.. ५. 'भ' ख. पाठः,