________________
अथ दशमः पटलः । प्रस्तु (तैः ! ता) प्रथ (म)मा(वि : गम ) दीक्षा षट्पदार्थपटले सविचारम् | सद्गुरुं तदधिकारविशेषैः सप्रभेदमपि तां कथयिष्ये ॥ १ ॥ दीयते यदनया शिवभावो दीक्षया हि पशवेऽत्र ददातेः । क्षीयतेऽस्य सह पाशपशुत्वं क्षिक्षयार्थपरिनिष्ठितधातोः ॥ २ ॥ वित्तनाथपथयायिनि सूर्ये वृद्धिमत्युपतौ शुभवारे । स्वर्क्षलग्नतिथि योगिनि कुर्यात् स्वानुकूलदिवसे खलु दीक्षाम् ॥ ३ ॥ शस्तसिन्धुतटदेवगृहादौ गोष्ठकेऽप्यथ मठे स्वगृहे वा । शोधिते भुदिसलक्षणमिष्टं मण्डपं च सुकृतं चतुरश्रम् ॥ ४ ॥ तस्य पूर्वदिशि पश्चिमतो वा शोभनेऽत्र भवने सुविविक्ते । रक्षणाय यजमानसमृद्ध्यै मङ्गलाङ्कुरविरोपणमिष्टम् ॥ ५॥ उत्सवेषु विविधेष्वपि दीक्षास्थापनादिषु पवित्रविधौ च । मङ्गलाङ्कुरविरोपणपूर्वं मङ्गलं भवति कर्म कृतं तत् ॥ ६ ॥ शस्तयागदिवसात् तु पुरस्तात् सप्तमेऽहनि शुभे नवमे वा । पञ्चमेऽपि सुदिने सुमुहूर्ते मङ्गलाङ्कुरविधिं विदधीत ॥ ७ ॥ पात्रमत्र विहितं त्रिविधं तत् पालिका च घटिका च शरावम् । विष्णुपद्मभवशङ्करदैवं तत्रयं पृथगनुक्रमशः स्यात् ॥ ८ ॥ अङ्गुलानि खलु विंशतिरुच्चैः पालिका वदनविस्तरतोऽपि । उत्तमाष्टजगतीपारसंख्ये मध्यमाधमविधौ कथिते द्वे ॥ ९ ॥ पादविस्तृतिरतोऽर्धमिता स्यात् तत्रिभागमितकण्ठबिलं च । दण्डवद्भवति शिष्टमशेषं कण्ठतुश्यपरिणाहमनोज्ञम् ॥ १० ॥ उच्चविस्तरसमा घटिकाख्या तालमात्रमिह पञ्चमुखी स्यात् । दिक्षु तन्मुखचतुष्टयमेकं मध्यतस्तु समवर्तितभागम् ॥ ११॥ तालविस्तृतमुखं तु शरावं तत्समोच्छ्रितमतोऽर्धमिताङ्घ्रि । दण्डमस्य चतुरङ्गुलनाभं कण्ठमस्य बिलवर्ज्यमुग्रम् ॥ १२ ॥ सम्भवे कनकरूप्यकताम्रैर्मार्त्तिकान्यभिनवान्यथवा स्युः । क्षालितानि सलिन शिवास्त्रात् सूत्र चेष्टितलानि निदध्यात् ॥ १३ ॥