पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

८८ ईशान शिवगुरुदेव पद्धतौ वर्ज्याः श्यामलंकोमलाः प्रतिनवा लूनार्दशुष्कांस्तथा [क्रियापादः दर्भाः स्युर्यदिहाग्निकार्यपटले वेण्यादिकं चोच्यते ॥ ११ ॥ तत्र “त्रिंशद्दर्भकृता वेणिः । अष्टघत्यष्टिधृत्यतिधृतिसंख्या वा दर्भा:, परिस्तरणे पूर्वादितः स्युः । तत्त्वसंख्यादर्भेबद्धं कुर्वं ज्ञानखड्गः, द्वात्रिंशद्दर्भे- रिति केचित् । दर्भद्वयेन सामान्यम् । दर्भपञ्चकेन विशेषकूर्चम्” इति संहि- तायाम् । इध्माबर्हिषां विधिः । स्थाल्याज्यस्य भवेच्छरावसदृशी विस्तारतोऽष्टाङ्गुला विस्तारार्धसमुच्छ्रयापि च भवेन्नालं च वेदाङ्गुलम् | विस्तारेण षडङ्गुलोच्छ्रितसमं पात्रं प्रणीताम्भसां स्यादष्टाङ्गुलविस्तृतोच्छ्रयसमा नालान्विता प्रोक्षणी ॥ १२ ॥ अत्र पौष्करे - " सर्वत्र स्वर्णरजतताम्रमृन्मयानि पात्राण्युत्तममध्य- माघमफलानि भवन्ती”ति । अष्टाभिः कुडुबै: प्रपूरितचरुः स्थाली स्मृतात्राधमा मध्यार्कस्वर संख्यकैः परिमिता स्यादुत्तमा ताम्रजा । श्रेष्ठान्या त्वधमा त्रिसप्तकमिता दर्व्यङ्गुलानां भवेद् दैर्ध्यात् सप्तशराङ्गुलैरिह शिरोवृत्तं तु पुच्छं द्वयात् ॥ १३ ॥ शाल्यः स्युः सित्तषष्टिकाश्च कलमा नीवारजास्तण्डुलाः संशुद्धास्तुषशर्करादिरहिताः शुक्लाः प्रशस्ताश्वरोः । श्रेष्ठं यत् स्वपशोघृतं नवमथ क्रीतं नवं मध्यमं क्रीताज्यं यदन्नूतनं तदधमं गव्यं भवेद् गालितम् ॥ १४ ॥ क्षौद्रं गन्धरसायदूषितमपि क्रीतं पुनर्गलितं ग्राह्यं क्रीतसितोपलाद्यभिनवं खण्डं गुलं चैक्षवम् । पूर्वं पूर्वमिह प्रशस्तमखिलं शुद्धं च शुक्लार्जित होमादेश्व तिलादिधान्यमखिलं प्रक्षाल्य संशोधितम् ।। १५ ।। यच्चान्यत् फलमूलकादि सुरसं ग्राह्यं विशुद्धं नवं तत्राङ्गुष्ठमिताहुतिस्तु कथिता ह्यन्य (स्य ? त्र) शास्यादिषु । स्यात् पञ्चाङ्गुलिभिर्धृतं द्रवरसेषूक्तं वा पूरितं लाजानां खलु मुष्टिरेव कुसुमेष्वेकैकमब्जादिषु ।। १६ ।