पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ईशानशिवगुरुदेवपद्धतौ अर्धचन्द्रादिकुण्डानां लक्ष्मणा सूत्रपाततः । [क्रियापाद: अर्धचन्द्रादिबिम्बानि कुर्यात् साम्यानुसारतः ॥ १३२ ॥ इति कुण्डमण्डलविधिः प्रधानतः कथितः शिवाध्वरविशेषसिद्धिदः । बहुशो निरूप्य विविधाञ् शिवागमानिह देशिकेन्द्रपरितोषकारकः ॥ ११३ ॥ इति श्रीमदीशानशिवगुरुदेव पद्धतौ सिद्धान्तसारे क्रियापादे उपरिभागे कुण्डमण्डलपटलोऽष्टमः ॥ अथ नवमः पटलः । वक्ष्ये स्रक्सुवयोश्च लक्षणमथो सुग्धस्तमात्रायता पोलाशी खदिरोद्भवापि च तथा स्याच्छामिली शोभना । बेदाश्रं तु मुखं स्वराङ्गुलिमितं श्रेष्ठ रसैर्वा शरे- र्मध्यं चाप्यधमं च निम्नमिह तन्मध्ये त्रिभागास्तृतम् ॥ १ ॥ विस्तारेण समं हि खातमपि तद् वृत्तं बहिर्मेखला- स्तिस्रः स्युः कमलं तथैव परितस्तासां तु मध्ये भवेत् । कण्ठो गोलकविस्तृतोऽङ्गुलमितो दैर्ध्येण तचोर्ध्वतः स्यादग्रं च शराङ्गुलायतमथो विस्तारतस्तत्समम् ॥ २ ॥ कण्ठे स्यादथ मध्यदेशसुषिरं तद्वै त्रिकोणं घृतं न िर्गच्छेद्धि यथायतं तदवटं यद्वत् कनिष्ठा विशेत् । तत्पृष्ठ कमलाङ्कितं खलु मुखं सर्वं गजोष्ठोपमं शिष्टं वर्तुलदण्डमस्य तु भवेदग्रं सरोजाङ्कितम् ॥ ३ ॥ दण्डाग्रं परिणाहतः सरसिजस्याधो यथर्त्वङ्गुल स्थूलोऽसौ क्रमशः प्रकोष्ठमिव तन्मूलं च वस्वङ्गुलम् । तत्र स्यादृषभोऽथवा सरसिजं श्लक्ष्णाकृतिः सर्वतो निर्दोषान्छुभदेशजान् क्षितिरुहाञ्च्छित्वा स्रुचं कारयेत् ॥ ४ ॥ स्रुग्जातं तु भवेत् स्रुवं सुविहितं तालद्वयायांमकं कुर्याद् वर्तुलमङ्गुलेनं वदनं तस्यावटेऽर्धाङ्गुले । भित्तिर्मध्यगता स्मृता यवमिता तद्गर्तयोः श्लक्ष्णयोः कर्षाज्यस्थितिगोष्पदाकृति च तत्पृष्ठे यवाभ्यां स्फिजौ ॥ ५ ॥