पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

दलभेदलक्षणम् ] उत्तरार्ध अष्टमः पटलः । त्वारंसन्धेरथ मध्यमेंशे तिर्यग्भ्रमाच्चोभयतोंऽशकार्घात् । ८५ रेखाद्वयान्तः कृशमध्यमकारकाः स्युः (१) पिपीलिकाक्रोडसमाह्वयाराः॥ १२१ ॥ अरसन्ध्यन्तरा पुष्पैर्विचित्रैरभिभूष्य तु । बिम्बवाद्येऽप्यथालिप्ते पुष्पालीभिर्विभूषयेत् ॥ १२२ ॥ उक्तं च चक्राम्बुजमेकनाभं प्रियं शिवार्यारवि केशवानाम् । अन्यानि च स्युर्नवनाभकान्तान्यूह्यानि चक्राम्बुजमण्डलानि ॥ १२३ ॥ चक्राब्जाधिकारः । कर्णिकार्धप्रमाणे प्राकूस्थसूत्रभ्रमक्रमात् । तस्यैव पार्श्वयोगेन मत्स्यद्वादशकं भवेत् ॥ १२४ ॥ सूत्रेषु तेष्वापतितैः ससन्धिसूत्रैश्च तद्वादशपत्रमब्जम् । अष्टच्छदाब्जस्य समं प्रभेदात् स्यादम्बुजं षोडशपत्रशोभम् ॥ १२५॥ केसरव्योमरेखान्तसूत्रात् तत्केसराग्रगात् । मत्स्यवल्लाञ्छयित्वा स्यात् पञ्चपत्रं तु पङ्कजम् || ६२६ ॥ कर्णिकादलसन्धिभ्यां प्राग्वत् षट्पत्रसिद्धये । व्योमरेखाकर्णिकाभ्यां दलाप्रस्थं तु सप्तकैः ।। १२७ ॥ दलसन्धिकर्णिकाभ्यां दलसन्धौ न्यस्तमत्स्याचिह्नेन । नवदलकं स्यात् सूत्रैः पञ्चभिरास्फाल्य पङ्क्तिपत्रं स्यात् ॥ १२८ ॥ केसराकाशयोर्मध्यव्योम्नि विन्यस्य लाञ्छयेत् । एकादशच्छदं त्वेवं पद्मं स्यात् सूत्रपाततः ।। १२९ ॥ पत्राग्रपत्रसन्धिभ्यां पत्राग्रे न्यस्य लाञ्छिते । आस्फाल्य तेषु सूत्राणि तत् स्यादभिकृतिच्छदम् ॥ १३० ॥ अतः परं चेद् दलवार्द्धमिच्छेद् दिशानयैवात्र यथाक्रमेण । तदूहतो मत्स्यवशेन सूत्रैर्लिखेत् सरोजानि यथाभिलाषम् ॥ १३१ ॥ दलभेदलक्षणम् ।