पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

८४ ईशानशिवगुरुदेवपद्धतौ पद्मं पुरोवदालिख्य नाभिं पीतेन पूरयेत् । दलतुल्यारके चक्रे दलरेखाः प्रसार्य तु ।। १०८ ।। लिखेत् ततस्तेष्वरकान् यथावद् दलाद् द्विसंख्येष्वरकेषु तद्वत् । दलाग्रसूत्रैर्दलसन्धिसूत्रैः प्रसारितैस्तावदिहारकाः स्युः ॥ १०९ ॥ विभज्यारभुवं त्रेधा द्वाभ्यामन्तरथाङ्कयेत् । [क्रियापादः मत्स्यवत् तेष्वथास्फाल्य सूत्राण्येषु लिखेदरान् ॥ ११० ॥ इन्दीवराश्वत्थदलोपमा वा ते मातुलुङ्गाकृतयोऽथवा स्युः । अब्जच्छदाभाश्च यवोदरा वा मध्ये कृशा वाथ पिपीलिकाभाः ॥ १११ ॥ अरकास्त्वरुणाः श्यामास्ते स्युरेकान्तराः क्रमात् । अन्ते गोरोचनाभाः स्युः पीताः स्युररसन्धयः ॥ ११२ ॥ नेमिं त्रिधा संप्रविभज्य कुर्याच्छुक्लेन मध्ये त्वसितेन बाह्ये | पीतेन चान्तः परिपूर्य कोणान् कृष्णेन सखस्तिक चिह्नरम्यान् ॥ ११३ ॥ अरसन्ध्यंन्तरालस्थो बहिर्नेमेः परिभ्रमेत् । अरसन्धेस्तु मध्यस्थो वर्तयेदरमूलकम् ॥ ११४ ॥ नध्येऽरकाणां स्थित्वा तु वर्तयेदर मध्यकम् । मातुलुङ्गफलाकारास्त्वेवं सिध्यन्त्यराः क्रमात् ॥ ११५ ॥ अराग्रसंस्थं त्वरसन्धिमूलात् सूत्रं तथारोभयपार्श्वसंस्थम् । पृथक् समास्फाल्य तथारकाः स्युर्विस्तारितेन्दीवरपत्रकल्पाः ॥ १११ ॥ अरमध्ये स्थितोऽराग्रं किञ्चित् त्यक्त्वाब्जपत्रवत् । अरसन्धेर्भ्रमाच्चाग्रप्रभ्रमादब्जदलारकाः ॥ ११७ ॥ कृशाग्रमूलाः पृथवस्तु मध्ये कार्यास्तृतीयांशतयारसन्धेः । अन्तः प्रविष्टास्तु यवोदराख्याः सिध्यन्ति ते स्युः क्रमशः शितामाः ॥ त्रिधा विभज्यारक्षेत्रं द्वितीयप्रथमांशयोः । मध्ये स्थित्वा भ्रमं कृत्वा तृतीयांशे दलाग्रवत् ॥ ११९ ॥ अर्धचन्द्राभरेखाभ्यां पत्राग्रं च समालिखेत् । इत्थमश्वत्थपत्राभास्तत्राराः सम्भवन्ति हि ॥ १२०॥