पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशान शिव गुरुदेवपद्धतौ क्रियापादः विलक्षणः शिवोऽन्येभ्यस्त्वनादिरमलो यतः । सर्वेषां समलत्वाच्च यद् यत् स्यान्निर्मलं स्वतः ॥ ११ ॥ तत्तद्विलक्षणं तेभ्यः स्वर्ण ताम्रादिकाद्यथा । तथाचोक्तं प्रसिद्धं स्यादत्रोक्तं किरणेऽपि च ॥ १२ ॥ अनादिमलसम्बन्धान्मलिनत्वमणौ स्थितम् । अनादिमलमुक्तत्वान्निर्मलत्वं स्थितं शिवे ॥ १३ ॥ इति । रामकण्ठोऽप्याह- “यश्वासौ सर्वज्ञः सर्वकर्ता च शुद्धः शिवः, तथा किञ्चिज्ञोऽशुद्ध आत्मा। तयोः शिवात्मनोः सम्ब(न्धी ये न्धिनी) तु शुद्धाशुद्धे निर्मलमलयुक्ते स्वरूपे" इति । श्रीमल्लम्बितेऽपि - - “एकः शिवः पुमानासीदपरेभ्यो विलक्षणः ।" इति । "तस्मादनादिमलिनास्त्वात्मानो ह्यणवः स्मृताः ।” इति ।

अनादिनिर्मलः शुद्ध एक एव महेश्वरः । निर्मल: शिव एकश्चेत् सर्वेभ्योऽपि विलक्षणः ॥ १४ ॥ निर्मला: शिवधामानः सन्ति विद्येश्वराः कथम् | कथ्यते मलमोक्षोऽपि त्वयैव शिवदीक्षया ।। १५ ।। दीक्षितानां शिवत्वं च सिद्धं शैवागमे यदा | एतेऽप्यपर एवास्माच्छिवात्मानः शिवाद् यतः ॥ १६ ॥ तस्मादयुक्तं सर्वेभ्यो वैलक्षण्यं शिवस्य हि । अत्र निर्वाणदीक्षायाः पूर्वं ते मलिना यतः ॥ १७ ॥ दीक्षोत्तरं ह्यमलता शिवत्वव्यक्तिरेव च । शिवानुग्रहतस्त्वेषां शिवत्वं ह्यादिमत् स्मृतम् ॥ १८ ॥ शिवस्त्वनादिसिद्धेन शिवत्वेनापरानणून् । अनुगृह्णन् स्वतन्त्रश्च स्यात् तेभ्योऽपि विलक्षणः ॥ १९ ॥ अत्र त्रय्यन्तिदन्तीन्द्रा बदन्त्यद्वैतमात्मनाम् । ब्रह्मैकमेवाद्वितीयं यथात्मानोऽपरे कथम् ॥ २० ॥