पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ श्रीः ॥ ईशानशिवगुरुदेवपद्धतिः श्रीमदीशान शिवगुरुदेवमिश्रविरचिता । ( तृतीय: क्रियापाद: ।) अथ प्रथमः पटलः । प्रणम्यादौ शिवं शक्तिं सादेशं च गणेश्वरम् | शुद्धविद्यां तथा वाणीं मुख्यं घर्मं प्रचक्ष्महे ॥ १ ॥ सामान्यमन्त्रपादाभ्यां पूर्वार्धे खलु दर्शिताः । धर्मार्थकाम्याः सामान्याः शिष्टं व्यावर्ण्यतेऽधुना ॥ २ ॥ मुख्यधर्मचिदाप्नोति दृष्टादृष्टफलोदयात् । भोगान् मोक्षं च तद्धर्मविषयः परमेश्वरः || ३ || अथातो धर्ममित्यादिसूत्राद् वैशेषिकादतः । धर्मप्रयोजनं मोक्षः प्रोक्तश्चाभ्युदयो महान् ॥ ४ ॥ धर्मा बहुविधाः ख्यातास्तत्तदागमचोदिताः । नहि ते मुख्यधर्माः स्युर्मुख्यधर्माः शिवोदिताः ॥ ५ ॥ मायाविकारहीनेन विशुद्धेनामलात्मना । सर्वकर्त्रा शिवेनोक्तं शास्त्रं मुख्यं हि सर्वथा ॥ ६॥ स हि मायादिभूम्यन्तविश्वकार्यस्य कारणम् । शिवः कर्ता विकर्ता च प्रमाणत्रयगोचरः ॥ ७॥ जगत् सावयवं ह्येतद् बुद्धिमत्कर्तृकं स्मृतम् । कार्यत्वाद् यद्यदेवं स्याद् यथा घटपटादिकम् ॥ ८ ॥ • तथा चोक्तमिदं तस्मादुक्तसाध्यं न संशयः । अस्त्येकः स शिवः कर्ता ह्यपरेभ्यो विलक्षणः ॥ ९ ॥ योगिप्रत्यक्षतः सिद्धश्चानुमानागमैरपि । सर्वेभ्यो ह्यपरेभ्योऽस्य वैलक्षण्यं कथं भवेत् ॥ १० ॥