पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शिवसद्भावाधिकारः] उत्तरार्धे प्रथमः पटलः । वैलक्षण्यं कुतोऽस्य स्याद् भे (दो) यत्र न सिध्यति । न चेद्रामः कुतः सीमा कस्यानुग्राहकः शिवः ॥ २१ ॥ इत्यादि ब्रुवतामेषां स्यात् प्रमाणं यदा तदा । द्वैतापत्तिः स्मृता नो चेदप्रमाणं हि तद् भवेत् ॥ २२ ॥ अत्र तद्वचनैस्तेषामुत्तरोत्तरमुत्तरम् । दत्तं द्वैत प्रसिद्धं स्यादद्वैतेन समासतः ॥ २३ ॥ ब्राह्मणाद्येषु सत्स्वेव भवन्त्यब्राह्मणादयः । तन्मतप्रतिकूलं स्यात् बन्धमोक्षपरिग्रहः ॥ २४ ॥ एकमेव यदा सर्वं ब्रह्म बद्धा न सन्ति हि । सर्वेऽपि मुक्ता एवातः किं फलं श्रवणादिभिः ॥ २५ ॥ गुरूपसदनं व्यर्थं नमस्कार्यः पृथक् कुतः । ज्ञातृज्ञेयविभागोऽपि ज्ञानं च स्यान्निरर्थकम् ॥ २६ ॥ इत्यादिभेदस्वीकारो वेदान्तेष्वपि दृश्यते । यस्माद् द्वैतं प्रसिद्धं हि गुणित्वमपि चात्मनः ॥ २७॥

किमत्र बहुनोक्तेन तस्याविद्याथवा तमः | माया वा त्याज्यमस्त्येव मुमुक्षोर्मोचकेतरत् ॥ २८ ॥ ब्रह्मविदाप्नोति परमित्यत्र श्रुतिदर्शनात् । नाप्नोत्यंब्रह्मविद् यस्माद् भेदः सिद्धः प्रमाणवान् ॥ २९ ॥ हेतोरभावादैकात्म्ये तद्वच्छून्यात्मवादिनः । बौद्धा बुद्धिभ्रमादत्र भ्रमन्तोऽपि निराकृताः ॥ ३० ॥ कर्म बुद्धिमता यस्मात् कृतं कार्यफलप्रदम् । ज्ञान चाहैतुकं तस्मात् क्रियातः फलवादिनाम् ॥ ३१ ॥ कर्म तत् क्षणिकं वा स्यात् परतन्त्रमचेतनम् । न तादृक् फलसिद्ध्यै स्याद् बुद्धिमत्कारणं विना ॥ ३२ ॥ तेषामचेतनैर्मन्त्रैः कर्मणा तादृशेन च । नूनं क्रियाफलावाप्तेः कर्ता ज्ञेयः सुधीः शिवः ॥ ३३ ॥ गुणप्रकृतिरव्यक्तं विश्वोपादानमित्यपि ।