पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४ ईशानशिवगुरुदेव पद्धतौ अजो ह्येको जुषमाणोऽनुशेतेत्यादिनापि च । तस्य प्रकृतिलीनस्य यः परः स महेश्वरः ॥ ३५ ॥ इत्यादिवाक्यतः साङ्खचैरप्यन्वेष्यो महेश्वरः । अचेतनत्वाद् भूतानां देहेन्द्रियगणस्य च ॥ ३९ ॥ त्यक्तगर्वैस्तु चार्वाकैरभ्युपेया ह्यनात्मता । भूतेन्द्रियाणि सन्त्येव मृतदेहेऽप्यतोऽपरः ॥ ३७ ॥ अन्वेषणीय आत्मा स्यादस्वातन्त्र्यं तथात्मनः । अदृष्टस्य च सद्भावो ग्रहादित्यादिदर्शनात् ॥ ३८ ॥ तत्कारणं सधीरस्तीत्येषणीयो महेश्वरः । देहप्रमाणमात्मानं नित्यानित्यविशेषणात् ॥ ३९ ॥ ब्रुवतां जैनसाधूनां महर्षिस्तादृगेव हि । अहिंसादितपोयोगादहन्त्वं तस्य तन्मते ॥ ४० ॥ सिद्धमित्यादिमान् सोऽपि तपसा परवान् यतः । तत्तपः फलदातान्यस्तैरुत्सृज्येह मत्सरम् ॥ ४१ ॥ स्वतन्त्रोऽनादिमान् कर्ताध्येषणीयो महेश्वरः । इत्यादिवाद पिशुनैरीश्वरेतरवादिभिः ॥ ४२ ॥ क्षिप्तस्वपक्षविक्षेपैरेष्टव्यः श्रेयसे शिवः । शिवसद्भावाधिकारः । स शिवः स्वमुखोद्भूतैरागमैस्तु परापरैः॥ ४३ ॥ अनुगृह्णाति हि जगद् भोगमोक्षप्रसिद्धये ॥ अत्र स्वायम्भुवे - - “अथात्ममलसन्तान पशुत्व विनिवृत्तये । व्यक्तये च शिवत्वस्य शिवाज्ज्ञानं प्रवर्तते ॥ तदेकमप्यनेकत्वाच्छिववक्राम्बुजोद्भवम् । परापरविभेदेन गच्छत्यर्थप्रतिश्रयात् ॥” इति। परैः शैवादिभिर्दिव्यैरागमैः पाशमोचकैः ॥ ४४ ॥ [क्रियापाद: