पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

आगमप्रामाण्यस्थापनाधिकारः] उत्तरार्धे प्रथमः पटलः । विशिष्टभोगविभवशिवत्व फलदायिभिः । अपरैरपि वेदाद्यैरागमैः स्वमुखोद्गतैः ॥ ४५ ॥ स्वर्गादिफलसिद्ध्यर्थं पशुज्ञानप्रकाशकैः । “अत्र परेण कामिकाविना शिवज्ञानभेदेनापरेण वेदादिना पशुशा- नभेदेने” ति सद्योज्योतिः । इति । तत्र पूर्वे तु शैवाख्यं तन्त्रं शिवमुखोद्गतम् ॥ ४६ ॥ शुद्धशैवमिति ख्यातं शुद्धतत्त्वसमाश्रयात् । निष्कलो हि शिवो वक्ति कथं वाक्यादिलक्षणान् ॥ ४७ ॥ आगमानिति चोघेऽस्मिन् दृष्टं वं शब्दलक्षणम् । निष्कलो ह्येष मन्त्रात्मा विद्यादेहं समास्थितः ॥ ४८ ।। विसृजत्यागमान् सृष्टौ स्ववक्रेणात्मगोचरान् । अत्र किरणें - "पुंसामनुग्रहार्थं तु परोऽप्यपरतां गतः । कृत्वा मन्त्रात्मकं देहं वक्ति तन्त्राप्यनेकधा ॥ Shardashah (सम्भाषणम्) ०४:५३, २७ नवेम्बर् २०२२ (UTC)"इति

शैवागमस्य भेदाः स्युः प्रथमं कामिकादयः ॥ ४९ ॥ • ततश्चाष्टादशविधा भेदाः स्युर्विजयादयः । अत्र स्वायम्भुवे - - “एकमेव शिवज्ञानं विभिन्नं दशधा पुनः । तथाष्टादशधा भूयो भेदान्तरविसर्पितम् ॥” इति । तद्यथा “कामिकं योगजाचिन्त्यकारणान्यजितं तथा ॥ दीप्तं सूक्ष्मं सहस्रं चाप्यंशुमान् सुप्रभेदकम् । शिवभेदसमाख्यानि तन्त्राण्येवं दश क्रमात् || विजयं चैव निःश्वासं प्रोद्गीतं पारमेश्वरम् । आमेयं मुखबिम्बं च स्वायम्भुवमतः परम् || urx•