पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

पार्वतीकान्तप्रसादाधिकारः] उतरार्ध अष्टमः पटलः । मण्डलेष्वपि सर्वेषु शुक्लान्यब्जदलानि तु । द्वाराणि चाथ वीथी स्याल्लताद्यैरविशेषिते ॥ ७३ ॥ सर्वतोभद्राधिकारः । द्वात्रिंशदंशे चतुरश्रकेऽस्मिन् सहस्रकं सङ्कृतिसंख्यकं च । कोष्ठानि तन्मध्यगतत्त्वसंख्यैः कोष्ठैः सरोजं तु लिखेत् पुरोवत् ॥ ७४ ॥ तद्वाद्यपङ्क्या पीठं स्यात् तद्बाह्ये सप्तपङ्क्तिभिः । लिङ्गाष्टकं तु विलिखेद् दिक्सूत्रोभयपार्श्वयोः ॥ ७५ ॥ ऋतुवेदाक्षिवेदर्तुकोष्ठैः स्यात् तिर्यगायतैः । पीठं सकण्ठं ब्रह्मादिजलपट्टान्तकं शुभम् ॥ ७६ ॥ पीठोपरिष्टात् खलु मध्यपङ्क्त्योर्युग्मस्थतत्कोष्ठचतुष्टयेन । लिङ्गं भवेत् तद्गतमध्यसूत्रं मध्यान्तसंवर्तितमस्तकं वा ॥ ७७ ॥ अन्तर्मुखानि लिङ्गानि बुभुक्षूणां समालिखेत् । विपरीतं मुमुक्षूणामन्तःपीठानि कारयेत् ॥ ७८ ॥ तत्कण्ठपीठोभयपार्श्वसंस्थे भद्रे चतुष्कोष्ठवशाद्भवेताम् | ८१ लिङ्गान्तरालेष्वपि पञ्चविंशैः कोष्ठैस्तु कोणेषु लता विधेयाः ॥ ७९ ॥ गोमूत्रिकावत् संसृष्टा रेखास्तत्कोष्ठगा यथा । तथान्यरेखा लोपेन लताः स्युर्विदिगायताः ॥ ८० ॥ अश्रयन्तरेषु वल्लीनां पत्राण्यप्यथवा लिखेत् । वल्ल्यादौ सक्तमूलानि कुटिलागादिकान्यपि ॥ ८१ ॥ तद्वाह्ये पङ्क्तियुग्मेन वीथीं प्राग्वत् तु मार्जयेत् । वीथीं तथा कल्पलताविशेषैराभूष्य तद्वावृतित्रयेऽपि । कोष्ठानि वेदर्तुवमुपसङ्ख्यं द्वारार्थमन्तः प्रभृतीह लुम्पेत् ॥ ८२ ॥ शोभोपशोभेऽपि स्यातां द्विचतुष्षड्विलोपतः ॥ ८३ ॥ त्रिः सप्तकोष्ठानि पृथक् कोणे कोणे तु मार्जयेत् । पद्मादिकं भद्रकवत् तु सर्वमाभूषयेत् पञ्चविधैस्तु चूर्णैः । लिङ्गाष्टकं पञ्चमुखोक्तवर्णैरिच्छानुरूपं परिपूरयेद् वा ॥ ८४ ॥ M