पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

८१ ईशानशिवगुरुदेवपद्धतौ इतीदं पार्वतीकान्तमुक्तं प्रासादमण्डलम् । अष्टलिङ्गलता पद्मवीथीमाकारमण्डितम् ॥ ८५ ॥ पार्वतीकान्तप्रासादाधिकारः । चतुरश्रं चतुर्हस्तं क्षेत्रं विंशतिभागिकम् । स्याच्चतुश्शतकोष्ठं तन्मध्येऽब्जं तत्त्वकोष्ठकैः ॥ ८६॥ पद्मचैकया पीठमथैकया स्याद् वीथी ततः पङ्क्तिचतुष्टयेन । [क्रिया पादः तद्द्वारलिङ्गैः परितो लताः स्युस्तद्वाद्यपङ्कयापि च बाह्यवीथी ।॥ ८७ ॥! कुर्याद् भद्रकवत् पद्मपीठवीथीर्यथाविधि । प्रतिपङ्क्ति द्विकोष्ठाष्टकोष्ठैर्द्वाराणि दक्ष्वपि ॥ ८८ ॥ वीथ्यन्तरा द्वारनिबद्धकोष्ठत्रयेण भूपीठमथैककोष्ठम् । स्यात् कण्ठपीठं त्वथ तोयपट्टं कोष्ठैस्त्रिभिर्लिङ्गमथैककाष्ठम् ॥ ८९ ॥ अधश्चोर्ध्वं च तत्कोणान् पीठकोष्ठचतुष्टये । कोष्ठान्तः कोणगं सूत्रं कोष्ठसूत्रार्धमानतः ॥ ९० ॥ भ्रमयित्वा त्यजेंद् बाह्ये खण्डिताश्रिचतुष्टयम् । पीठमेवं भवेद् रम्यं द्वादशाग्रैरलङ्कृतम् ॥ ९१ ॥ प्राग्वत् समापूर्य तु वर्णचूर्णैः पद्मादिवीथ्यन्तमशेषबिम्बम् । ख्यातं लतालिङ्गसमुद्भवाख्यं तन्मण्डलं शङ्करवल्लभं यत् ॥ २२ ॥ लतालिङ्गोद्भवाधिकारः । क्षेत्रे षोडशधा भिन्ने चतुरश्रे चतुर्दिशम् । पार्वतीकान्तवत् कोष्ठैः कुर्यालिङ्गचतुष्टयम् ॥ ९३ ॥ मध्येऽवशिष्टैरपि वेदकोठैर्लिङ्गान्तरालेष्वपि तत्प्रसंख्यैः । चतुर्दलाब्जं स्वयमेव तैः स्याल्लिङ्गेषु संवर्तितमस्तकेषु ॥ ९४ ॥ भद्राष्टकं स्यात् कण्ठेषु लताः कोणेषु पूर्ववत् । लिखित्वा मण्डलं तत् स्यात् पञ्चब्रह्माभिधानकम् ॥ ९५ ॥