________________
८० ईशानशिवगुरुदेवपद्धतौ विसृजेत् कोणसिद्ध्यर्थं वृषभानेषु वा लिखेत् । कण्ठोपकण्ठान् रक्तेन कपोलोपकपोलकान् ॥ ६० ॥ पीतेनाच्छादयेदष्टौ यथा भूमिर्न दृश्यते । [क्रियापादः बहिर्गुणान् वै परितः क्रमोक्ता लिखेत् ततः सत्त्वरजस्तमांसि । रजोभिरङ्गुष्ठमितांस्तु शुक्लारुणासितान् मध्ययवान्तरांस्तान् ॥ ६१ ॥ भद्रकाधिकारः । चतुरश्रेऽष्टधा भिन्ने चतुष्षष्टिकृते पदे ।। ६२ । मध्ये कोष्ठचतुष्केण पद्मपीठं च संलिखेत् । तद्वाचपच्या खलु वीथिका स्यात् तद्वाह्यपङ्क्तिद्वयदिक्चतुष्के । द्वाराणि कोष्ठैः खलु वेदसंख्यैः सम्मृज्य शुक्लानि समानि कुर्यात् ॥ ६३ ॥ द्वाराणां पार्श्वयार्थबाह्यपङ्क्तावेकैक कोष्ठकम् || ६४ ॥ द्वारेणायोज्य विसृजेत् स्यातां कण्ठोपकण्ठकौ । संस्थाप्य कोणेष्वथ कोष्ठमेकं शिष्टैः पृथक्कोष्ठकपञ्चकैः स्युः । एकीकृतैर्वेदकपोलकास्ते तावन्त एवोपकपोलकाश्च ॥ ६५ ॥ "कपोलं तु भवेत् तेषु पदं पूर्वापरायतम् । इत्यजिते । दक्षिणोत्तरगं चापि भवेदुपकपोलकम् ॥” प्रागुक्तमार्गेण तु कर्णिकाद्यं त्वापूर्य वीथीं च तथोक्तवर्णैः । शरण शुक्लेन कपोलकास्तु रक्तास्तथापीतरुचोऽथवा स्युः ॥ ६६ ॥ अत्राजिते- ― “कपोलोपकपोलानेि वह्निकोणादिषु क्रमात् । रक्तं पीतं तथा श्यामं श्वेतं च परिकल्पयेत् ॥” इत्। वह्नयादिकोणकोष्ठानि पीतश्यामासितारुणैः ॥ ६७ ।। पूरयेद् वाथ सर्वाणि कृष्णेनेत्यपरे जगुः । बाह्ये तु शुक्लारुणकृष्णवर्णैः प्राग्वत् समालिख्य गुणत्रयं तत् । स्यात् सर्वतोभद्रमिदं तु कोणे षट्कोष्ठकैकीकरणेन भद्रम् ॥ ६८ ॥