पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

काधिकारः ] उत्तरार्धे अष्टमः पटलः । कुण्डं स्यादष्टकोणं सुरुचिरमथवा प्यर्धदिक्सूत्रकोणैः शिष्टार्धाप्यैन्द्रपञ्चाशकशफरयुगोत्पन्नमीनाष्टकैर्वा ॥ २९ ॥ तुर्यश्रं नवधा विभज्य तु बहिश्चान्तः क्षिपेदशकं दिक्कोणेषु विधाय चांशमथ तत्संस्थैः क्रमात् सूत्रकैः । स्यातां द्वे चतुरश्रके सममिते व्यत्यासतोऽष्टाश्रकं ह्येशान्यां सुसमं यथा सुरुचिरं कुण्डं तथा वा भवेत् ॥ १० ॥ कुण्डाधिकारः । चतुरश्रं तु संसाध्य द्व्यष्टधा विभजेत् पुनः । षट्पञ्चाशश्व कोष्ठानां द्विशतं चात्र वै भवेत् ॥ ३१ ॥ षण्णां षड्भस्तु कोष्ठैर्लिखतु सरसिजं मध्यदेशेऽस्य बाह्ये पङ्क्त्या पीठं च पीठादू बहिरपि परितः पङ्क्तियुग्मेन वीथीम् । ता पङ्क्तियुग्मे दिशि विदिशि तथा द्वारकण्ठोपकण्ठान् गल्लांश्चैवोपगल्लाननलनिर्ऋतिवाय्वीशकोणेषु कोणान् ॥ ३२ ॥ (कण्ठोपकण्ठान् ! गल्लोगल्लान् ) कपोलोपकपोलान् शोभोपशोभानिति केचिदाहुः । पद्मक्षेत्रस्थदिक्सूत्रे संस्थाप्यान्यद् विसृज्य तु । बहिर्द्वादशकं भागं त्यक्त्वान्यत् परिवर्तयेत् ॥ ३३ ॥ क्षेत्रं चतुर्धां विभजेत् तु वृत्तं सूत्रक्रमेणैव समं क्रमेण । तत्कर्णिकाकेसरपद्म (ग ! स) न्धिपत्रावसानं च भवन्ति तानि ॥ ३४ ॥ पूर्व द्वादशकांशं यत् त्यक्तं तद् भ्रामयेद् बहिः । पञ्चमं तु भवेत् क्षेत्रं व्योमाख्यं तद्दलाग्रकम् || १५ ॥ प्रसार्य कोणसूत्रे द्वे कोणादिस्मध्यमेन तु । चत्वारि सूत्राण्यास्फाल्य सूत्रषोडशकं भवेत् ॥ ३६ ॥ दलान्तसिद्धयै दलसन्धिमध्ये निधाय सूत्रं तु दलान्तमानम् । दलान्तरालद्वयसंभ्रमोत्थैः शशाङ्कखण्डैस्तु दलं प्रसिध्येत् ॥ ३७ ॥