पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

७६ ईशानशिवगुरुदेवपद्धतौ1 श्रुत्ये तु सीम्नोर्बहिरपि पुरतोऽथाङ्कयित्वाम्बुनाथे तन्मानात् सूत्रमन्तर्निहितमुभयतः कोणयोर्वर्तयित्वा । मध्यायन्यस्य कर्णान्तकमपि परतः कोणयोः पूर्वचिह्ने सूत्रे त्वास्फाल्य योनिप्रतिममपि भवेत् कुण्डमश्वत्थपत्रम् ॥ २१ चतुरश्रं युगांशांशं कृत्वान्त्यश्चोत्तरे यजेत् (?) । भागं त्वनेन प्राक्प्रत्यग् बहिरङ्को निधाय तु ॥ २२ ॥ तद्वद् दक्षिणतो मध्यस्थितसूत्रभ्रमाद् द्वयोः । अर्धचन्द्रसमाकारं कुण्डं भवति शोभनम् ॥ २३ ॥ वेदाश्रे चतुरंशके भुजमितं प्रागेशमाप्याद् बहिः क्षिप्त्वा मध्यमवारुणाङ्कविहिते सूत्रे द्विधा वर्तिते । स्यातां द्वौ शफरौ तयोश्च पुरतश्वाऽथ सूत्रत्रयं बापादः क्षिप्त्वा नैर्ऋतदिङ्मुखे भवति तत् कुण्डं त्रिकोणाह्वयम् ॥ २४ ॥ षष्ठांशं पूर्वनिहितं गृहीत्वा नैर्ऋतस्थितम् । वायव्यान्तेषु सूत्रे द्वे क्षिप्त्वा वा स्यात् त्रिकोणकम् ॥ २५ ॥ मध्यबिन्दुस्थितं सूत्रं प्राग्भुजाङ्कान्निधाय तु । परिवर्त्य भवेत् कुण्डं वर्तुलं तत् सुशोभनम् ॥ २६ ॥ भु(जा)शब्दस्याभिप्रायात् प्राग्भुजाया बहिः प्राक्च्छब्ददर्शनादङ्गुलाः ये(?) निधायेति यात्रत् । बाह्यस्थं षष्ठमंशं शतमखवरुणस्थापितं वेदकोणे मध्ये संस्थाप्य सूत्रं सममिह तु तयोर्वर्तयित्वा तु बाह्ये । चत्वारस्तत्र मत्स्यास्तदनु धनददिग्दक्षिणस्थे च सूत्रे तत्रस्थेष्वेव चिद्वेष्वथ समपतिते स्यात् षडभ्रं हि कुण्डम् ॥ २७ ॥ वृत्तकुण्डेऽब्जपत्राणि बाह्ये तन्मेखलोपरि । कुण्डार्धमायतान्यष्टौ कृत्वा स्यात् पद्मसंज्ञितम् ॥ २८ ॥ आदित्याङ्गांश मन्तर्बहिरपि परितः सम्भ्रमाद् दिक्षु ताभ्यां द्वाभ्यां मत्स्यौ भवेतां दिशि दिशि विततैस्तेषु सूत्रैर्यथावत् ।