पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

कुण्डाधिकारः ] भत्र भोजराजः - उत्तरार्धे अष्टमः पटलः । "मुण्डहस्तप्रमाणे स्यादाद्या द्यङ्गुला । द्वितीया अङ्गुलेन । अर्धाङ्गुलेन च तृतीया । अरत्निप्रमाणस्य व्यङ्गुलयङ्क (ल ?लैकाङ्गुल) माना" इति । हस्तकुण्डे मेखलाः स्युश्चतुलियाः क्रमात् । षट्चतुस्त्र्यङ्गुलैः कुर्याद् द्विहस्तेऽपि यथाक्रमम् ॥ १४ ॥

चतुष्करे त्वष्टकषट्चतुर्भिः षड्ढस्तके चापि दशाष्टषड्भिः । स्युरङ्गुलैरष्टकरेऽपि कुण्डे ताः षोडशद्वादशकाष्टसंख्यैः ॥ १५ ॥ सर्वाः सर्वेषु कुण्डेषु विस्तारोच्छ्रयतः समाः । परितः स्वसमायामा निम्नोन्नत विवर्जिताः ॥ १६ ॥ अत्र भोजराजः

- “ क्रमेण सर्वकुण्डेषु तिलो मेखलाः कुण्डानुरूपेणैव विधातव्या : " इति। कुण्डस्य पश्चिमे योनिं कुर्याद् दक्षिणतोऽपि वा । मध्यतो मेखलानां तु सर्वासामुपरि स्थिताम् ॥ १७ ॥ सूर्याङ्गुलायाममिता तु योनिरा मूलतोऽश्राद् वसुवददस्तैः । तुल्यानुलेस्तु क्रमशोऽङ्गुलोच्चा द्रानिर्गतामापि च रत्निकुण्डे ॥ १८ ॥ अरन्यादिषु कुण्डेषु द्व्यङ्गुलं द्व्यङ्गुलं पृथक् । क्रमादायामविस्तारवृद्धया योनिर्विधीयते ॥ १९ ॥ अत्र भोजराजेन्द्रपद्धतौ - "एवं प्रथम कुण्डस्य । शेषाणां व्यङ्गुलवृद्धया योनिर्विधातव्या " इति । मजयच- हस्तमात्रस्य कुण्डस्य " तालायता जलपतेर्दिशि संस्थिता स्यादश्वत्थपत्रसदृशी क्रमशोऽथ निम्ना ॥ नाभिर्दशाङ्गुलतः क्रमेण विस्तारतश्च चतुरङ्गुलगोलकाग्रा ॥" इति । चतुरश्रं तु वा वृत्तं कुण्डं नित्ये च शान्तिके । सार्वकामिकमित्यन्ये चतुरश्रं तु वर्तुलम् ॥ २० ॥