पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

अथाष्टमः पटलः । प्रासादे मण्डपे वापि गृहे वा यत्र कर्म तत् । क्रियते तत्र संशुद्धे गोमयालेपिते स्थले ॥ १ ॥ मध्येऽत्र सूत्रं वरुणेन्द्रदीर्घ निवेश्य चास्फाल्य तु तस्य मध्ये । बिन्दुं विधायापरपूर्वयोर्वै तदङ्कयेत् सूत्रवशात् समानम् ॥ २ ॥ पुनस्ते सूत्रखण्डे तु समं भित्त्वाङ्कयेदपि । बिन्दास्तु पूर्वापरमध्यमाङ्केर्मितेन सूत्रेण तदाहितेन । बिन्दोः सयाम्योत्तरादिक्समाङ्कवशात् समालिख्य तुं मत्स्ययुग्मम् ॥ ३ ॥ तयोर्निधाय सूत्रं स्याद् दक्षिणेनोदगायतम् ॥ ४ ॥ इत्थं ब्रह्माह्वयं सूत्रमुदक्सूत्रं च साधयेत् । क्षेत्रार्ध मानेन तु बिन्दुसं (स्था स्थां)श्चतुर्दिशं सूत्रवशाद् यथेष्टम् । अङ्कान् विधायाथ तदङ्कयुग्मात् सूत्रद्वये स्युः खलु कोणमत्स्याः ॥ ५ ॥ तेषु मत्स्येषु परितो दिक्षु सूत्रैर्निपातितैः ॥ ६ ॥ चतुरश्रं भवेत् क्षेत्रं चतुष्कोष्ठं समं शुभम् । सर्वमण्डल कुण्डादिवास्तुनिर्माणकारणम् ॥ ७ ॥ चतुरश्रसाधनम् । कुण्डं प्रशस्तं चतुरश्रमादावश्वत्थपत्रं च तथार्धचन्द्रम् | तद्वत् त्रिकोणं त्वपि वर्तुलं स्यात् षट्कोणकं पद्ममथष्टकोणम् ॥ ८ ॥ रत्निमात्रं शतार्थे स्याच्छतहोमे त्वरलिकम् । सहसे हस्तमानं स्यादयुते च द्विहस्तकम् ॥ ९॥ लक्षे चतुष्करं कुण्डं दशलक्षे तु षट्करम् । कोटिहोमेऽष्टहस्तं स्याद् यथा भोजेन्द्रपद्धतौ ॥ १० ॥ सर्वाणि कुण्डानि यथोक्तमानादायामविस्तारसमानि तानि । खातं च विस्तारसमं विधेयं तिस्रः क्रमाच्चोपरि मेखलाः स्युः ॥ ११ ॥ समं स्यात् सर्वतः खातं खातोपरि चतुर्दिशम् । एकाङ्गुलं परित्यज्य कुर्यात् तिस्रोऽथ मेखलाः ॥ १२ ॥ रत्निप्रमाणे खलु मेखला स्यादाद्याङ्गुला भ्यामपराङ्गुलेन । अर्धाङ्गुलान्या त्वथ चाप्यरत्नौ त्रिव्द्येकमात्रालकैर्विधेया ॥ १३ ॥