पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

मुद्राधिकारः] उत्तरार्धे सप्तमः पटलः । बद्धमुष्टयोस्तु संलमसम्मुखाङ्गुष्ठहस्तयोः । फालकर्णी भवेच्छेवी सु + + त्रापराः स्मृताः ॥ १० ॥ अधोमुखं दक्षिणहस्तमुष्टौ ज्येष्ठा तु वामा निहिताथ मुष्टेः । वामस्य मध्यात् प्रसृतापसव्यज्येष्ठापरा वेष्टितलिङ्गमुद्रा ॥ ११ ॥ पूर्वोदितैव धेनुमुद्रा । तिरश्चीने कनिष्ठाग्रे त्वङ्गु (ष्ठे ! ष्ठाभ्यां समास्थिते । देशिनी मध्यमे रुन्ध्यादनाने द्वे समुन्नते ॥ १२ ॥ संयुक्ता च ते कृत्वा मुद्रा पञ्चमुखी भवेत् । दशमुद्राधिकारः । आकुच्याथ कनिष्ठाग्रमाक्रम्याङ्गुष्ठमध्यतः ॥ १३ ॥ ऋज्वायतास्तु शेषाः स्युरङ्गुल्यः शक्तिसंज्ञिता । इयमेव हि शक्त्याख्या विरलोध्वोङ्गुलित्रया ॥ १४ ॥ यदि स्यात् त्रिशिखाकारा शूलमुद्रेति कथ्यते । दूध्वाञ्जलिं तु हस्ताभ्यां निगृह्यानामिकाद्वयम् ॥ १५ ॥ शेषाङ्गुलीः प्रसार्येयं द्रव्यमुद्रा प्रकीर्तिता । प्रसार्य दक्षिणं हस्तं कनिष्ठाद्यखिलाङ्गुलीः ॥ १६ ॥ क्रमादाकुचयेच्छीघ्रं मुद्रा संहारिणी मता । मिथः पृष्ठार्पितौ हस्तावन्योन्यमथिताङ्गुली || १७ | कृत्वा बद्ध्वा परावर्त्य नत्वा सा स्यात् क्षमापनी । इति पञ्चमुद्राः । इयं मन्त्रा मुख्यशश्चापि (रु ? मुद्रा: प्रोक्ता येभ्यः कर्मासद्धिः प्रदिष्टा । ज्ञानाद् येषां धारणाच्चापि जापादिष्टान् कामान् साधनाच्चाप्नुवन्ति ॥१८॥ इति श्रीमदीशान शिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे कियापारे मुद्रापटलः सप्तमः ॥ J.