पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

७२ ईशानशिवगुरुदेवपद्धतौ इतीह मन्त्राः कथिती यथावद् (या ? यथाप्रधानाः शिवतन्त्रसिद्धाः । क्रियाः प्रसिध्यन्ति च यैरशेषाः शिवत्वपूर्वाभ्युदयाश्च मोक्षः ॥ १३१ ॥ इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे क्रियापादे मन्त्रोद्धार पटलः षष्टः ॥ अथ सप्तमः पटलः । वक्ष्ये मुद्राः शैवतन्त्रप्रसिद्धा याभिः पूजाकर्मसिद्धिः प्रदिष्टा । सूर्यस्यादौ षड् विशेषेण पश्चाच्छम्भोर्मुख्याः स्युर्दशान्याश्च वेद्याः ॥ १ ॥ पद्मा कारावाभिमुख्येन पाणी मध्येऽङ्गुष्ठौ शायितौ कर्णिकावत् । पद्माख्येयं सैव संलग्नमध्या सृष्टाङ्गुष्ठा बिम्बसंज्ञा तु मुद्रा ॥ २ ॥ प्राग्वत् पाण्योर्लग्नयोरङ्गुलीनामग्रेऽङ्गुष्ठोच्चानान्निष्ठुरा स्यात् । बद्ध्वा मुष्टिं दक्षिणामास्फुरन्त्यौ मुक्त्वा तर्जामध्य मे गोवृषाख्या ॥ ३ ॥ अन्योन्यग्रथितसमाङ्गुली कपाण्यास्तर्जाग्रद्वय समवेत मध्यमात्रे | व्यत्यस्तेऽप्यथ तद्नानिकाकनिष्ठायुक्ता भवति हि धेनुसंज्ञमुद्रा || ४ || बध्वां दक्षिणहस्तेन मुष्टिमुत्सृष्टतर्जनीम् । ततर्जन्या वाग़तलताडनात् त्रासनी भवेत् ॥ ५ ॥ इति मुद्राषट्कं सूर्यस्य । प्रसारिताधोमुखाभ्यां हस्ताभ्यां संस्पृशेत् तनुम् | पादावारभ्य मूर्धान्तं महामुद्रेयमीरिता ॥ ६ ॥ उत्तानपाण्योर्विहिताञ्जलौ तज्ज्येष्ठाप्रयुग्मेन पृथनिकुञ्न्च्य । स्पृष्ट्वा तथानामिकयोस्तु मूलं मुद्रेयमावाहनसंज्ञिता स्यात् ॥ ७ ॥ इयमावहन्येवाधोमुखी स्थापनी । संलग्नमुष्ट्योः करयोः स्थितोर्ध्वज्येष्ठायुगं यत्र समुन्नतमम् । सा सन्निधापन्यथ सैव गर्भाङ्गुष्ठा भवेच्चेदिह निष्ठुराख्या ॥ ८ ॥ बध्वाञ्जािं पङ्कजकोशकल्पं यद्दक्षिणज्येष्ठिकया तु वामाम् ! ज्येष्ठां समाक्रम्य तु वन्दनीयं मुद्रा नमस्कारविधौ प्रयोज्या ॥ ९ ॥