पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ईशान शिव गुरुदेवपद्धतौ प्रथमं तु पदं तारं सप्तमान्त्यं त्वगन्वितम् ॥ ८३ ॥ त्रयोदशस्वरोपेतमुद्धृत्यैवं तथा पुनः । षष्ठयान्त्यं व्यापिने चेति द्वितीयं पञ्चवर्णकम् ॥ ८४ ॥ व्योमशब्दश्च रूपाय सर्वव्यापिन इत्यपि । पञ्चाक्षरे पदे प्रोक्ते शिवायेति त्रियक्षरम् ॥ ८५ ॥ अनन्तानाथशब्दैस्तं चतुर्थ्या चतुरक्षरे । पदेऽथानाश्रितायेति पञ्चार्णैरष्टमं पदम् ॥ ८६ ॥ त्रिचतुर्वर्णकपदे चतुर्थ्या ध्रुवशाश्वतौ । योगपीठसंस्थिताय नित्ययोगिन इत्यपि ॥ ८७ ॥ वसुबाणाक्षरे ध्यानाहाराय शरवर्णकम् । पञ्चाक्षरस्तु तारादिर्मुख्यं षड्वर्णकं पदम् ॥ ८८ ॥ सर्वप्रभव इत्यर्णैः पञ्चभिः स्यात् पदं ततः । शिवायेति त्रिवर्णं स्यादथेशानादिपञ्चकम् ॥ ८९ ॥ उक्त्वा मूर्धाय वक्राय हृदयायेति चोपरि । गुह्याय मूर्तये चेति षट्सप्तमुनिसंख्यया ॥ ९० ॥ समुद्रोदधिसंख्यार्णैः क्रमात् स्यात् पदपञ्चकम् । तारं नमो वीप्सितं च पदं पञ्चाक्षरं भवेत् ॥ ९१ ॥ षड्भिर्गुह्यातिगुह्याय गोप्त्रे वर्णद्वयं पदम् । अनिधनाय पञ्चार्णैः सर्वविद्याधिपाय तु ।। ९२ । । सप्तार्णैः सर्वयोगाधिगतायेत्यष्टवर्णकम् । ज्योतीरूपाय बाणार्णैः परमेश्वरपराय च ॥ ९३ ॥ अष्टाक्षरैः परमात्मन्पदं स्याद् वेदवर्णकम् । अचेतनाचेतनेति पदं सप्ताक्षरैः स्मृतम् ॥ ९४ ॥ व्योम्निद्वन्द्वं चतुर्वर्णं व्यापिन्युग्मं तथैव हि । अरूपिन् वीप्सितं षड्भिः प्रथमद्वितयं तथा ॥ ९५ ॥ तेजोयुग्मं चतुर्वर्णं ज्योतिर्द्वन्द्वं तथैव हि । अरूप चाप्यनग्ने च अधूमेति त्रिभिस्त्रिभिः ॥ ९६ ॥ [क्रियायादः