पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

श्रोद्धाराधिकारः] उत्तराधे षष्ठः पटलः । अभस्म चाप्यनादे च नात्रयं धूत्रयं तथा । त्रियक्षराणि चत्वारि पदानीमानि वै विभोः ॥ ९७ ॥ ताराद्यं भूर्भुवःस्वश्च द्वित्रिद्व्यर्णानि वै क्रमात् । पदान्यनिधनेत्यर्णैश्चतुर्भिर्निधनं त्रिभिः ॥ ९८ ॥ निधनोद्भवपञ्चार्णे शिव इत्यक्षरद्वयम् । द्वाभ्यां शर्वेति च पदं विज्ञेयमिह देशिकैः ॥ ९९ ॥ महेश्वरेति श्रुत्यर्णं महादेवपदं तथा । सद्भावेश्वरपञ्चार्णं महातेजश्चतुष्टयम् ॥ १०० ॥ पञ्चार्णं योगाधिपते मुञ्चद्वन्द्वचतुष्टयम् । प्रथमद्वितयं षड्भिः शर्वयुग्मचतुष्टयम् ॥ १०१ ॥ भवद्वन्द्वं चतुर्भिः स्याद् भवोद्भवचतुष्टयम् । अथाष्टवर्णं हि पदं सर्वभूतसुखप्रदम् ॥ १०२ ॥ सप्ताक्षरं सर्वपूर्वं सान्निध्यकर इत्यपि । ब्रह्मविष्णुरुद्रप(दं ? र) पदमष्टाक्षरं भवेत् ॥ १०३ ॥ अनर्चितानर्चितेति तथासंस्तु तवीप्सितम् । अष्टवर्णे पदे ज्ञेये पूर्वस्थितचतुष्टयम् ॥ १०४ ॥ साक्षिद्वन्द्वं चतुर्भिः स्याद् वेदार्णं तुरुयुग्मकम् । पतङ्गेति त्रिवर्णं स्यात् पिङ्गयुग्मं चतुष्टयम् ॥ १०५ ॥ ज्ञानद्वयं शब्दयुगं सूक्ष्मयुग्मं पदत्रयम् । पृथग् वेदाक्षराण्येव शिवशर्वद्वयं द्वयम् ॥ १०६ ॥ सर्वदेति त्रिभिर्वर्णैः पञ्चाणैरोंनमो नमः । शिवाय त्र्यक्षरपदं विज्ञेयं देशिकोत्तमैः ॥ १०७ ॥ तारपूर्व नतिद्वन्द्वं पदं पञ्चाक्षरं स्मृतम् । एकाशीतिपदान्येवं विज्ञेयानि क्रमेण हि ॥ १०८ ॥ तारौ सर्वात्मने ज्योतिः सहितं हृदयं स्मृतम् । द्वितीयं पदमुच्चार्य सशिवब्रह्मशब्दयुक ।। १०९ ।। te