सामग्री पर जाएँ

पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

मन्त्रोद्धाराधिकारः ]

उत्तरार्धे षष्ठः पदलः । वामे पश्चात् क्रमोऽयं स्यात् सर्वत्र स्वस्खमुद्रया । सामान्येन षडङ्गानि वक्ष्यन्ते ब्रह्मणां क्रमात् ॥ ४६॥ यथा- प्रोक्तं प्रयोगमञ्जयौ पौष्करे च निबन्धने । शरतारादिसर्वज्ञशब्दः स्यात् सचतुर्थिकः ॥ ४७ ॥ नमोन्तं हृदयं प्रोक्तमथ वर्गादिमुद्धरेत् । षष्ठान्तं सप्तमोपेतं पञ्चमाद्यं दशान्तयुक् ॥ ४८ ॥ तेजोमालिनिशब्दश्च तृप्तया ब्रह्मशब्दयुक् । श िरश्चतुर्थ्या स्वाहान्तः शिवो मन्त्र उदाहृतः ॥ ४९ ॥ तृतीयस्य तृतीयार्ण सजलं त्वथ सप्तमात् । तृतीयं तत्स्वरोपेतं तकारं शिखिशब्दयुक् ॥ ५० ॥ शिखे चानादिबोधोऽयं जातियुक्तं शिखां तथा । वज्रिणे च समुद्धृत्य वज्रशब्दं धराय च ॥ ५१ ॥ स्वतन्त्रं च चतुर्थ्यन्तं कवचाय च जातियुक् । अष्टमाद्यं तृतीयाद्यं चतुर्थं चाष्टमस्य च ॥ ५२ ॥ त्रयोदशान्तयुक्तानि विन्दुमन्युद्धरेत् क्रमात् । अलुप्तशक्तयेशब्दं नेत्रत्रयपदं तथा ॥ ५३ ॥ चतुर्थ्यन्तं समुद्धृत्य नेत्रं स्याज्जाति योजितम् । अथ पाशुपतास्त्रं तु यत् पञ्चार्णं तदुद्धरेत् ॥ ५४ ॥ अनन्तशक्तये चोक्त्वा स्यादस्त्रं तत् स्वजातियुक् । शिव एव विसर्गान्तः शिवात्रं परिकीर्तितम् ॥ ५५ ॥ षष्ठवर्गद्वितीयं तु चतुर्षाद्यार्धमात्रयुक् । प्रथमात् पञ्चमादाद्यौ संयोज्यैव द्विवर्णकम् ॥ ५६ ॥ अस्त्रं पाशुपतं त्वेतत् समस्तदुरितापहम् । अस्यादौ शिवास्त्रं तु शिखाबीजे नियोजयेत् ॥ ५७ ॥ सर्वविघ्नहरं दिव्यं मुक्तिदं स्याज्जपादिभिः । अष्टमाद्यं भूमियुक्तं तृतीयस्वरबिन्दुमत् ॥ ५८ ॥ K ६५