पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ईशान शिवगुरुदेव पद्धतौ तामसी च तथा मोहां क्षपां निष्ठायामपि । [क्रियापादः- मृत्युं मायां भयां चैव जरां चाघोरजाः कलाः ॥ ३४ ॥ राजसी चैव रक्षां च रतिं चाप्यथ पालिनीम् । सज्जमन्या क्रियां तद्वद् बुद्धिं छायायामपि ॥ ३५॥ धात्रीं च भ्रामणीं चैव मोहिनीं चाभयां न्यसेत् । स्वैः पदैवामदेवस्य कला द्येतात्रयोदश ॥ ३६ ॥ सिद्धिं चाार्द्धिं द्युतिं लक्ष्मीं मेधां कान्ति स्वधां स्थितिम् । सद्योजातकला ह्येतास्तत्पदैर्विन्यसेत् क्रमात् ॥ ३७ ॥ नवाष्टादिजगत्यर्णैः शरवेदाक्षरैरपि । क्रमादीशानमन्त्रस्य कलाः पञ्च न्यसेद् बुधः ॥ ३८ ॥ नवाष्टवेदवेदार्णैः कलास्तत्पुरुषस्य च । शरबाणाश्विगायत्रशराग्निशरसायकैः ॥ ३९ ॥ स्वाक्षरैर्विन्यसेद् विद्वानघोरस्य कलाष्टकम् | ऊर्ध्वप्राग्दक्षिणोदीच्यपश्चिमाशास्थमूर्धसु ॥ ४० ॥ ईशानस्य कलाः पञ्च नमोन्तं विन्यसेत् पृथक् । ऊर्ध्वास्ये शान्त्यतीताख्यां प्रणवेन कलां न्यसेत् ॥ ४१ ॥ ततः प्रा + + +पौरूषीः। कला विन्यसेदिति यावत् ।

अघोरस्याथ हृदये कण्ठे चैवांसयोः क्रमात् ॥ ४२ ॥ नाभौ च जठरे पृष्ठे तथेोरसि कलां न्यसेत् । गुह्योपरिष्टाद् गुह्ये चाप्यूर्वोर्जान्बोश्च जङ्घयोः ॥ ४३ ॥ स्फिजोः कट्यां पार्श्वयोश्च वामदेवकलां न्यसेत् । पादयोश्च तथा पाण्योर्नासिकायां च मूर्धनि ॥ ४४ ॥ ब ाह्वोश्च विन्यसेदष्टौ सद्योजातकलाः क्रमात् । अंसोर्वादिषु युग्मेषु पूर्व दक्षिणतो न्यसेत् ॥ ४५ ॥