________________
पञ्चब्रह्वस्वरूपन्यासादि उत्तरार्धे षष्ठः पटलः तारं वर्गादिकं चोक्त्वा घोरेभ्योऽथेति चोद्धरेत् । अथमुक्तं पुनश्चैतत् पदं घोरद्वयं ततः ॥ २० ॥ त ारेभ्यस्त्रयक्षरादूर्ध्वं चशब्दं सर्वतः पदम् । शर्वसर्वेभ्य इत्युक्त्वा नमस्तेति पदद्वयम् ॥ २१ ॥ अस्तु रुद्रपदान्ते तु रूपेभ्य इति चोद्धरेत् । अघोरमन्त्र एष स्यादुक्तः षट्त्रिंशदक्षरैः ॥ २२ ॥ तारं तदिति चोदूधृत्य पुरुषायपदं ततः । विद्येत्यर्णद्वयं हे च महादेवाय चोद्धरेत् ॥ २३ ॥ पञ्चमस्य चतुर्थं स्याच्चतुर्थस्वरभूषितम् । महितन्नश्चतुर्वर्णान् रुद्रः प्रेत्यक्षरत्रयम् ॥ २४ ॥ चोदयादिति मन्त्रोऽयं पञ्चविंशतिवर्णकः । भवेत् तत्पुरुषस्यापि मन्त्रोऽथेशान उच्यते ॥ २५ ॥ तारं स्वरं चतुर्थे च सप्तमात् पञ्चमादपि । पञ्चमे दीर्घसर्गान्ते चोदूधृत्यार्णचतुष्टयम् ॥ २६ ॥ सर्वशब्दं च विद्यानामीश्वरश्चाक्षराणि षट् । सर्ववर्णौ च भूतानां ब्रह्माधिपतिरित्यपि ।। २७ ॥ षष्ठ्यन्तं ब्रह्मशब्दं च प्रोक्तोऽथाधिपतिस्त्विति । ब्रह्मा शिवश्चतुर्वर्णान् मेअस्त्वित्यक्षरत्रयम् ॥ २८ ॥ सदाशिवं च तारान्तः स्याच्चत्वारिंशदक्षरैः । प्रोक्तो हीशानमन्त्रोऽयं ब्रह्माणीमानि पञ्च हि ॥ २९ ॥ अष्टौ त्रयोदशाष्टौ च चतस्रः पञ्च एव च । कलांः सद्यादिकानां स्युरष्टात्रिंशद् यथाक्रमम् ॥ ३० ॥ ब्रह्मभङ्गया न्यसेद् देहे पञ्च वक्रेषु च न्यसेत् । वक्रभङ्गया कलान्यासं कुर्यात् स्थानेष्वनुक्रमात् ॥ ३१ ॥ शशिनीं चाङ्गदामिष्टां मरीचीं ज्वालिनीं तथा । ईशानस्य कलाः पञ्च न्यसेत् तत्पदपञ्चकैः ॥ ३२ ॥ शान्ति विद्यां प्रतिष्ठां च निवृत्तिं च स्वकैः पदैः । सह तत्पुरुषस्यैताश्चतस्रो विन्यसेत् क्रमात् ॥ ३३ ॥