पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ईशान शिवगुरुदेव पद्धतौ [क्रियापादः वक्रं वर्णास्तु तन्मन्त्राः कलास्तन्मूर्तयोऽपि च । अपृथक् च पृथक् चैव ज्ञातव्यास्तत्र तत्र हि ॥ ७ ॥ सद्योजातं तु वारुण्यां वामदेवं तथोत्तरे । अघोरं दक्षिणमुखं प्राचि तत्पुरुषाह्वयम् ॥ ८ ॥ ईशानमूर्ध्ववक्रं स्याद् ब्रह्माणीमानि पञ्च हि । ह्रस्वस्वरान् बिन्दुयुतांस्ताराद्यान् ब्रह्मणां क्रमात् ॥ ९ ॥ संयोज्यादौ चतुर्थ्यन्तं नमोन्तं च पृथक् पृथक् । ब्रह्माणीमानि पञ्च स्युः सामान्यान्यर्चनादिषु ॥ १० ॥ दीक्षितानां तु सर्वेषां पाठ्यान्येवाविशेषतः । अथ वेदागमोक्तानि पञ्च ब्रह्माणि पञ्च हि ॥ ११॥ तानि द्विजातिपाठ्यानि न स्त्रीशूद्रादिभिः क्वचित् । तान्युदूधियन्ते सावित्री गायत्री शैवसम्मता ॥ १२ ॥ तद्वत् पाशुपतास्त्रं च व्योमव्यापि च मन्त्रराट् । तारं च शुक्लद्योकारो जातं षष्ठाद्यमभियुक् ॥ १३ ॥ षष्ठाद्यं द्यामित्यादौ नववर्णान् समुद्धरेत् । सद्योजातं चतुर्थ्यन्तं द्वादशस्वरकं जलम् || १४ || नतिं भवेति द्विगुणमनात्यन्ते भवे पदम् । भजस्वेति च मां चोक्त्वा चतुर्थ्यन्तं भवोद्भवम् ॥ १५ ॥ नमश्च सद्यस्त्वेकोनचत्वारिंशद्भिरक्षरैः । प्रणवो वामदेवश्च चतुर्थ्यन्तो नमोन्वितः ॥ १६ ॥ ज्येष्ठश्च रुद्रः कालोऽपि त्रयस्तावन्नमोन्तकाः । पृथक् कालबलान्ते स्यात् पदं विकलनाय तु || १७ | बलप्रमथनाय स्यात् सर्वभूतपदं ततः । दमनश्च चतुर्थ्यन्तः तद्विभक्त्या मनोन्मनः ॥ १८ ॥ नमोन्तो नवभिस्तारैः पञ्चसप्ततिवर्णकैः । वामदेवस्य मन्त्रोऽयं नवशक्त्युपबृंहितः ॥ १९ ॥