पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

अथ षष्ठः पटलः । अङ्गैःषड्भिः स्यात् क्रियायाः प्रसिद्धिर्मन्त्रा मुद्राः कुण्डवन्मण्डलानि । द्रव्यावाप्तिः साधकाश्चेति सम्यग् वक्ष्यन्ते तान्यत्र तन्त्रोदितानि ॥ १ ॥ अत्र मतङ्गे- " मुद्रामण्डलमन्त्राश्च क्षेत्रद्रव्याणि साधकाः । गुरुणा + + + + नि यथावत् तन्निबोधत ॥ | " इति । तद् यथा -

मननत्राणधर्मित्वं वाचके दैवतस्य तु । यत्र तन्मन्त्रसंज्ञं स्याद्ह्रस्वदीर्घादिलक्षणैः ॥ २ ॥ मननात् सर्वभूतानां त्राणात् संसारसागरात् । मंन्त्ररूपा हि तच्छक्तिर्मननत्राणधर्मिणी ॥ ३ ॥ रत्नत्रये- " निर्विकल्पात्मकं ब्रह्म यन्नित्यानन्दविग्रहम् । शिवतत्त्वं हि तन्नित्यं निर्मलं व्यापि चिद्घनम् ॥ शिवादभिन्ना तच्छतिर्नित्या तद्वत् सुनिर्मला | चितिः स्वतन्त्रा विश्वस्य सिद्धिहेतुर्हि सा मता ॥ कृत्यं पञ्चविधं तस्य शिवस्य करुणानिधेः । सृष्टिः स्थितिश्च संहारस्तिरोभावोऽप्यनुग्रहः ॥ सिध्येच्छक्त्यान (ये ? या) स्वेच्छाक्रियाज्ञानाख्यभेदया । सा शक्तिर्बिन्दुतामेति परापरविभागतः ।। तस्माच्च नादो ह्यभवन्मूलबीजं शिवात्मकम् । तथाहि- नादाख्यं यत् परं बीजं सर्वभूतेष्ववस्थितम् ॥ मुक्तिदं परमं दिव्यं सर्वसिद्धिप्रदायकम् । सान्तं सर्वगतं शून्यं मात्राद्वादशकास्थितम् ॥