पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ईशानशिवगुरुदेवपद्धतौ दशोपचाराः कथिता निवेद्यान्ते तु पूजने । [क्रियापाद: होमान्तको तु कथिता ह्युपचारास्तु षांडेश ॥ ११० ॥ बल्यन्ते चापि ते ख्याताः पञ्चविंशतिसङ्ख्यया । नृतान्ते वापि षटूत्रिंशदुपचाराः प्रकीर्तिताः ॥ १३१ ॥ उत्तमोत्तमपूजायामुत्तमे वा भवन्त्युत । आसनावाहनार्थ्याणि पाद्यमाचमनीयकम् ॥ ११२ ॥ साङ्गं स्वनिं तथा वस्त्रमुपवीतं च भूषणम् । गन्धपुष्पे च मालाश्च धूपो दीपश्च दर्पणम् ॥ १३३ ॥ नीराजनं च नैवेद्यमभिकार्यं प्रदक्षिणम् । नमस्कारः स्तुतिवाद्यगाते नित्यबलिस्तथा ॥ १३४ ॥ पूजासमर्पणं चेति पञ्चविंशति चोदिताः । अथासनादयः पञ्च पञ्चगव्याभिषेचनम् ॥ १३५ ॥ पञ्चामृताभिषेकश्च स्नानं राजोपचारतः । वस्त्रोपवीताभरणं गन्धपुष्पगक्षतम् ॥ १३६ ॥ धूपदीपौ च मुकुरं नीराजनविधिस्ततः । नैवेद्यं चाथ ताम्बूलं विद्यापीठाचनं ततः ॥ १३७ ॥ अग्निकार्यं यथावच्च पादुके चामरेऽपि च । छत्रं च नित्ययात्रा च बलिदानं पवित्रकम् ॥ १३८ ॥ 'प्रदक्षिणनमस्कारस्तोत्राण्यातोद्यमेव च । गीतं नृत्तं च पूजादेः समर्पणमतः परम् ॥ १३९ ॥ षटूत्रिंशदुपचाराः स्युरेवं तन्त्रोदिताः क्रमात् ॥ इति निगदितमार्गास्तूपचाराः प्रदिष्टाः पृथगिह परिपाट्या शैवतन्त्रेषु दृष्टाः । यजनविधिषु शम्भोर्वेदितव्या यथावत् स्वभिमतफलसिद्धिः स्याद् यथा भक्तिभाजाम् ॥ १४०३ ॥ इति श्रीमदीशानशिवगुरुदेव पद्धतौ सिद्धान्तसारे उपरिभागे क्रियापादे उपचारपटलः पञ्चमः ।