पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

नित्यनैबेद्यविधिः ] उत्तरार्धे पञ्चमः पटलः । श्रीः पञ्चशतं तलं द्विगुणितं ते द्वे प्रकुञ्जं स्मृतं ते द्वेऽथ प्रसरस्तथैव कुडुबं प्रस्थार्धकं तद्वयम् । प्रस्थं पात्रमथाढकं शिवमथो द्रोणं च खारिः क्रमात् खारीणां त्रितयं हि भार उदितो मानं यथाशास्त्रतः ॥ ९४ नित्यं नैमित्तिकं चेति नैवेद्यं द्विविधं मतम् ॥ ९५ ॥ तच्चोत्तमोत्तमाद्यं तु नवभेदेन वक्ष्यते । तत्र नित्यविधरष्टद्रोणशालितण्डुलैः ॥ ९६ ॥ सार्धरात्रचतुष्कालपूजायां विनिवेदयेत् । पायसं कृसरं गौलमन्नं तच्च चतुर्विधम् ॥ ९७ ॥ यथोचितोपदंशाज्यदध्यपूपरसोत्तरम् । सगीतनृत्तवादित्रं सभूतबलिमङ्गलम् ॥ ९८ ॥ तत्र पञ्चशतं दीपास्त्वेवं स्यादुत्तमोत्तमम् । षड्भिर्द्रौणैिश्चतुष्कालमभ्यर्च्य विनिवेदयेत् ॥ ९९ ॥ शतद्वयं तथा दीपाः स्युर्गीतबलिनर्तनैः । कुर्यात् पूर्वानुसारेण तत् स्यादुत्तममध्यमम् ॥ १०० ॥ पञ्चद्रोणैश्चतुष्कालं निवेद्यं पूजनं तथा । अष्टोत्तरशतं दीपा गीतवाद्यबलिक्रियाः ॥ १०१ ॥ अग्निकार्ये च कुर्वीत स्यादेवं तूत्तमाधमम् । सचतुर्द्रोणनैवेद्यं चतुष्कालोचितार्चनम् ॥ १०२ ॥ गीताद्यं वलिहोमौ च प्रदीपाः स्युश्च सप्ततिः । मध्यमोत्तममेवं स्यान्मध्यमध्यमथोच्यते ॥ १०३ ॥ तण्डुलैरर्षभारैस्तु नैवेद्यं चार्चनान्वितम् । मध्याह्न एव होमः स्याद् द्विकालं नर्तनादिकम् ॥ १०४ ॥ चत्वारिंशत् प्रदीपाः स्युर्मध्यमध्ये बलिस्तथा । खारितण्डुलनैवेद्यं चतुष्कालार्चना बलिः ॥ १०५ ॥ होमो द्वादश दीपाः स्युर्गीताद्यं मध्यमाधमे । ५५