पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

[क्रियापादः ईशान शिवगुरुदेव पद्धतौ ततो वासांसि शुद्धानि सूक्ष्माण्यभिनवानि तु ॥ ६८ ॥ दुकूलपट्टकार्पासदेवाङ्गादीनि यानि हि । अन्यत्रानुपयुक्तानि विकेशान्यहतानि च ॥ ६९ ॥ भक्त्या यथोपपन्नानि तैर्देवं परिधापयेत् । भूषणानि च हैमानि नानारत्नोज्ज्वलानि च ॥ ७० ॥ पादाद्याकेशयोग्यानि यानि तैस्तं विभूषयेत् । अलाभे मानसैर्वापि दर्पणं च प्रदर्शयेत् ॥ ७१ ॥ वस्त्रभूषणाधिकारः । गन्धस्तु द्विविधः शैवः पञ्चानोऽष्टाङ्ग एव च । चन्दनागरुकर्पूरकुङ्कुमानि हिमाम्भसा ॥ ७२ ॥ श्लक्ष्णपिष्टानि गन्धोऽयं पञ्चाङ्गः समुदाहृतः । चन्दनं कुङ्कुमं कुष्ठं दलं शीतमथागरु ॥ ७३ ॥ कर्पूरं हिरिवेरं च गन्धोऽष्टाङ्गः प्रकीर्तितः । "चन्दनागरुकर्पूरकाश्मीरोशीररोचनाः । कुष्ठं हिमजलं चेति गन्धोऽष्टाङ्गः शिवप्रियः ॥” इति वातुले ।

"चन्दनागरुकर्पूरमांसीकुङ्कुमरोचनाः । स्पृग्वानराभ्यामष्टाङ्गः शाक्तो गन्ध उदाहृतः ।। " इति (च)। पुष्पाणि सात्त्विकानीह शुक्लवर्णानि यानि वै ॥ ७४ ॥ राजसानि च रक्तानि तामसान्यसितान्यपि । श्यामं तमोरजोभिश्रं पीतं राजससात्त्विकम् ॥ ७५ ॥ सात्त्विकाद्यैस्तु कुसुमैः स्यात् फलं सात्त्विकादिकम् । श्वेतार्क करवीरकं च कमलं धुर्धरकारग्वधे राजार्कं च सिताम्बुजं च तुलसी साशोकसच्चम्पकैः । कल्हारं बकपाटले वकुलकं द्वे मल्लिके मालती पालाशस्थलपद्मदर्भदमनापामार्गदूर्वाङ्कुरैः ॥ ७६ ॥