पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ईशानशिवगुरुदेवपद्धतौ पुनराचमनीयेषु शस्तमम्भः सुगन्धि यत् । नमः स्वधा तथा स्वाहावषड्जातियुजा हृदा ॥ ४७ ॥ अर्ध्यादिकचतुष्कं तु दद्यादेवं यथाक्रमम् । अर्ध्यस्य त्रीणि पात्राणि पाद्यस्यापि त्रयं भवेत् ॥ ४८ ॥ षडाचमनपात्राणि स्यादप्येकमसम्भवे । अर्घ्यमांदैः तथा स्नाने पूजान्ते च प्रदीयते ॥ आदौ स्नाने विभूषान्ते पाद्यं कालेषु वै त्रिषु । ४९ ॥ पाद्यान्ते मधुपर्कान्ते स्नानाद्यन्ताम्बरादिषु ॥ ५० ॥ निवेद्यान्ते च षट्स्वेषु दद्यादाचमनीयकम् । [क्रियापाद: गन्धपुष्पादिकं द्रव्यं दत्त्वा दत्त्वा पृथक् पृथक् ॥ ५१ ॥ सामान्याचमनं दत्त्वा कर्तव्यं कर्म चोत्तरम् । पाद्याचमनाधिकारः । आत्माश्रयद्रव्यमन्त्रशुद्धं कृत्वा यथाक्रमम् ॥ ५२ ॥ यथेह सम्यक् परतः पूजापटल उच्यते । सूर्यविघ्नेश्वरगुरून् संपूज्यात्मानमेव च ।। ५३ ।। गन्धपुष्पादिनाभ्यर्च्य सङ्कल्प्येष्ट्वा शिवासनम् । आवाह्मोदितमार्गेण लिङ्गे तु सकलं शिवम् ॥ ५४ ॥ मूर्ध्नि दूर्वाक्षतं दत्त्वा विशेषार्ध्यं प्रदाय तु । गड्डुकांस्तोयवस्त्रं च प्रक्षाल्यास्त्रेण वै सकृत् ॥ ५५ ॥ पूरयेद् गालितैरद्भिर्गड्डुकांश्चास्त्रवर्धनीम् । हृदा वाप्यथ गायत्र्या गन्धं पुष्पं क्षिपेत् पृथक् ॥ ५६ ॥ अर्ध्यबिन्दुं क्षिपेदेषु मूलं विन्यस्य तेष्वथ । तैर्जलैः स्नापयेद् देवमर्चितं धूपितं पुनः ॥ ५७ ॥ अत्र ब्रह्मशम्भुः — “वामहस्ततले कृत्वा गड्डुकान् लिङ्गमस्तकान् | कुसुमं पूर्वविन्यस्तं तदर्घ्येणापनीय तु ॥