पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

प्राद्याचमनाधिकारः ] उत्तरार्धे पञ्चमः पटलः ।

कुशाक्षततिला दूर्वा गन्धः पुष्पं यवास्तथा । क्षीरं चाष्टाङ्गमर्थ्याम्भः शैवं स्याद् विजयोदितम् ॥ ३६॥ मतङ्गे- “जलं बिल्वफलं दूर्वा तिलाः पुष्पाणि तण्डुलाः । गव्यं दधि च दर्भामर्घ्यमष्टाङ्गमीरितम् ॥” गन्धपुष्पाक्षतयवाः कुशदूर्वाग्रसर्षपाः । आपश्वेत्यष्टभिर्द्रव्यैः शाक्तमर्घ्यं प्रचक्षते ॥ ३७ ॥ हैरण्यं राजतं ताम्रमलाभे वाथ दारवम् । पात्रं त्रिकुटुबैः पूर्णमध्यें शङ्खोऽथवा भवेत् ॥ ३८ ॥ यन्त्रिकाधारसंस्थं तदस्त्रधौत मधोमुखम् । ४९ अ (वा ? वो)क्ष्योत्तानयित्वास्मिन् कूर्चं शक्तिं च विन्यसेत् ॥ १९ ॥ आपूर (वि : मि)न्दोच्योतद्भिरमृतैः संहितां जपन् । अष्टाङ्गैर्वा षडङ्गैर्वा विन्यस्याङ्गैः शिवं ततः ॥ ४० ॥ मन्त्रसंहितयालभ्य प्ररोच्यामृतमुद्रया । गन्धपुष्पाक्षतैर्धूपैरिष्ट्वास्त्रेण सुरक्षितम् ॥ ४१ ॥ कवचेन सुगुप्तं तत् सर्वविघ्ननिवारणम् । तदद्भिः कुशकूर्चेन स्वशिरः प्रोक्षयेत् ततः ॥ ४२ : प्रत्येकमर्चनाद्रव्यं भुवं च प्रोक्षयेत् क्रमात् । तत्सुगुप्तं विशेषार्ध्यं यत् पूजायां प्रदीयते ॥ ४३ ॥ केवलाम्भोभिरापूर्य गन्धपुष्पाक्षतैरपि । शिवास्त्रजपितं ज्ञेयं सामान्यार्ध्यं शिवार्चने ॥ ४४ ॥ अर्घ्यविधिः । पाद्यं सामान्यतो ज्ञेयं दूर्वाश्यामाकपङ्कजैः । प्राग्वत् पात्रे समापूर्य पाद्यं दद्यात् तु पादयोः ॥ ४५ ॥ सजातिफलतक्कोललवङ्कं शीतलं जलम् । कर्पूरचन्दनोन्मिश्रं ज्ञेयमाचमनीयकम् ॥ ४६ ॥ H