सामग्री पर जाएँ

पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ईशानशिवगुरुदेवपद्धतौ पुष्पैरञ्जलिमापूर्य हृदयाग्रेसरं शिवम् । तावदुच्चारयेद् यावत् प्राप्तं निष्कलगोचरम् ॥ तद्भावभावनाविष्टं प्रस्फुरद्रश्मिमण्डले । बिन्दावभ्युदितं ध्यायेदावाहनविधिं प्रति ॥ तस्मादादाय विस्रब्धः स्थिरधीः पुरतः स्थिते । देहे लक्षीकृते न्यस्य स्थापयेद्धृदयेन तम् ॥" इथि आवाहनाङ्गभूतानि स्थापनं सन्निधापनम् । सन्निरोधामृतीकाराववकुण्ठनमेव च ॥ २७ ॥ शिवस्यावाहितस्यास्य विद्यादेहेऽत्रं सन्ततम् । स्थिरीकरणमुद्दिष्टं स्थापनं भक्तितोऽर्चने ॥ २८ ॥ तेन स्वस्वामिसम्बन्धे स्वसामर्थ्य प्रदर्शनम् । यत् सान्निध्यं तदस्येह सर्वगस्यापि कीर्त्यते ॥ २९ ॥ आसमाप्तेस्तु पूजायाः सान्निध्यं तु शिवस्य यत् । स सन्निरोध उद्दिष्टो विभोरप्यस्य भक्तितः ॥ ३० ॥ आनन्दायतनं तत्त्वं सच्चिदानन्दविग्रहम् । तदत्र सकले व्याप्तं ध्येयं स्यादवकुण्ठनम् ॥ ३१ ॥ अपि भिन्नखभावानां यदभिन्नं प्रयोजनम् । अङ्गानामङ्गिना सार्धममृतीकरणं हि तत् ॥ ३२ ॥ अवकुण्ठनवत् तेजोरुचिराङ्गप्रवर्धनम् । तन्महामुद्रया कार्यं यतस्तद्धि प्ररोचनम् ॥ ३३ ॥ आवाहानाधिकारः । अर्घ्यं तत् त्रिविधं शैवं षडङ्गाष्टाङ्गभेदतः । शाक्तं चाष्टाङ्गमर्घ्य स्यात् + + + +दितं यथा ॥ ३४ ॥ गन्धपुष्पाक्षतकुशा दूर्वाग्रं च तथोदकम् । भोजेन्द्र ब्रह्मशम्भूक्तं षडङ्गार्घ्यमुदाहृतम् ॥ ३५ ॥ [क्रियापादः