________________
४१ ईशान शिवगुरुदेवपद्धतौ [क्रियापादः व्याप्तं च तद्भ्रूयुगल (वसानं स्थूलांशमात्रेण घरां प्रविष्टमः । वृत्तं खविम्बं स्फटिकावदातं स श्रोत्रशब्दं च सबिन्दुशक्तिम् ॥ २०॥ ईशानसादेशयुतं त्वतीतं व्याप्तं समूलास्त्रकमाशिरोन्तात् । तद् द्वादशान्तः स्थितमूलमन्त्राच्चन्द्रामृतासारजलैः समस्तम् ॥२१॥ आप्लाव्य निर्बर्तित भूतशुद्धिः सम्पाद्य तत्त्वानि यथाक्रमेण । शिवादिपृथ्व्यन्ततत्त्त्रैः स्वशक्त्यधिष्ठानशिवस्येच्छया विद्यादेहं सम्पादयेत् । शिवेच्छयोत्पादित शुद्धदेहो हृद्यासनं तु प्रणवेन दत्त्वा ॥ २२ ॥ तद्व्यापिनीं न्यस्य शिवां तु शक्तिं स्वबीजजीव निहितं शिवाख्ये । तं द्वादशांन्तादथ पूरकेण त्वानीय नाड्या हृदयाब्जमध्ये ॥ २३ ॥ संस्थाप्य मूलामृतवारिपूरराप्लाव्य पूजादिकमारभेत । - भूतशुद्धयधिकारः । अत्रोच्यतेऽन्या स्फुटमात्मशुद्धिर्या शोषणादिक्रमशोर्ध्वदेहे ॥ २४ ॥ निःशेषदोषक्षय शुद्धिदानाद् रोगान् जरां मृत्युमपि क्षिणोति । प्राग्वत् स्वदेहे सुषिरं विचिन्त्य तद्व्यापिनीं चान्तरबाह्यशक्तिम् ||२५|| हुङ्कारमध्य स्थित चित्तजीवः प्राणान्नियम्याहृतपूरकेण । ग्रन्थीन् विदार्याहृतरेचकान्तमस्त्रेण वायुं विनिवर्त्य पूरात् ॥ २६ ॥ चैतन्यमाहृत्य ससान्तजीवं हृत्सम्पुढे ज्योतिरनामयाख्यम् । तं कुम्भकोद्धातवशात् तदूर्ध्वं चाकृष्य सौषुम्नपथेन कान्तम् ॥ २७ ॥ तं द्वादशान्तःस्थशिवे नियुज्यात् तत्त्वानि नीत्वा विलयं विलोमात् । वर्णान् विलोमात् क्षहसक्रमाक्तान् नीत्वा लयं शब्दततिं च शक्तौ ॥२८॥ शून्यं तु देहं मलपापमात्रं विचिन्त्य कृष्णं त्वथ नाभिचक्रे । बिम्बे तु वायोरतिधूम्रवर्णं यङ्कारमुद्भाव्य तु चण्डवायुम् ॥ २९ ॥ ध्यायेदधः शाखमथेोर्ध्वमूलं संसारवृक्षात्मकमात्मदेहम् | " देहात्माधोमुखस्तत्र ध्यातव्यो भवपादपः " । इति ब्रह्मशम्भुः । तं शोषवेन्नाभिविनिर्गतान्तश्चण्डानिलेनाघमले च शोष्ये ॥ ३० ॥