पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

४०. ईशानशिवगुरुदेवपद्धतौ स्नानमात्राः संमारोप्य नागदन्तादिके क्वचित् । शुद्धे विविक्ते मौनी तु ततः पूजामुपक्रमेत् ॥ १२३ ॥ सन्ध्योपास्तिप्रसङ्गादिति विधिविहितं नैत्यकं कर्मचक्रं संक्षेपाच्छैवतन्त्रे स्मृतमिह कथितं लिङ्गिनां वर्णिनां च । दृष्टादृष्टेष्टसिद्धिप्रदमिह सुनिभिः सेवितं चेति सन्तः [क्रियापादः स्वीकुर्वन्तु स्ववित्तं स्वयमिव सुहृदः सत्पथावर्तयन्तः ॥ १२७ इति श्रीमदीशान शिव गुरुदेव पद्धतौ सिद्धान्तसारे क्रियापादे नित्यस्नानादिपटल स्तृतीयः । अथ चतुर्थ: पटलः । प्रणम्य शम्भुं शशिखण्डशेखरं भवं भवच्छेदकरं समासतः । सभूतशुद्धिक्रममात्मशोधनं निगद्यते योगजपादिसिद्धये ॥ १ ॥ स्नातो यथावत् समुपास्य सन्ध्यां यागालयं प्राप्य कृताङ्घ्रिशौचः । आचम्य चान्तर्विधिवत् प्रविष्टः शस्तासने वाग्यमवान् निविष्टः || आमस्तकाङ्घ्रिद्वयमात्मदेहे ध्यायन् सुसूक्ष्मं सुषिरं तदन्तः । बाह्ये तु विन्यस्य तु शक्तिमच्छां व्योमत्विषं तामथं देहमध्ये ॥ ३ ॥ हुङ्कारबीजं रुचिमद् विचिन्त्य प्राणान्नियम्यात्र निवेश्य चित्तम् । तद्रेचकान्तोक्तफडन्तमस्त्राद् ग्रन्थिप्रभेदं क्रमशो विदध्यात् ॥ ४ ॥ प्रशब्देन पाशुपतास्त्रेणेति यावत् । ये ग्रन्थयः पञ्च तमोमलिष्ठा हृत्कण्ठतालुस्थितयः प्रसिद्धाः । भ्रूमध्यतो मूर्धनि चेति तेषां भेदात् तु नाडीसरणिः प्रसिद्धयेत् ॥ ५ ॥ वायुं नियम्यात्मनि पूरकार्धाचैतन्यसान्तात्मकजीवरूपम् । सान्तात्मकशब्देन हंसमन्त्र उच्यते । तं बिन्दुभूतं च निरामयं स्वे हृत्पङ्कजे कुम्भकतो विभाव्य ॥ ६ ॥ तत्रोर्ध्ववायोः प्रसरेण जीवं सौपुन्नमार्गान्निहितं स्वमूर्ध्नि । उद्घातमात्रेण तु बीजवृत्त्या तं द्वादशान्तःस्थशिवं नयेच्च ॥ ७ ॥ उद्धातो नाम द्वादशमात्रः । अत्र योगानुशासने : "जानु प्रदक्षिणीकृत्य न द्रुतं न विलम्बितम् । यत् करोत्यङ्गुलिस्फोटं तावन्मात्रां विदुर्बुधाः ॥