पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ईशानशिवगुरुदेवपद्धतौ गोमयं पद्मपालाशपत्राद्यन्यतमेन तु । गृहीत्वा तु विशुद्धात्मा गायत्र्या शिवसंज्ञया ॥ १०१ ॥ शिवाग्नौ संहितामन्त्रैः साधितं करूपसंज्ञितम् । आरण्यगोमयं दूरे ग्रामादेः पूतमाहरेत् ॥ १०२ ॥ प्राग्वच्छिवाग्निना दग्धं यत् तत् स्यादनुकल्पकम् । चतुर्विधं च तद् मस्म जातिसंकरवर्जितम् ॥ १०३ ॥ अग्निदग्धेष्वरण्येषु गृहीत्वा भस्म तत् पुनः । गोमूत्राबद्धपिण्डं तु विशोष्याथ शिवानले ॥ १०४ ॥ दग्धं भस्मोपकल्पं स्यादकरूपकमथोच्यते । विशिष्टविप्रगोवाटजातं वा देवतालयात् ।। १०५ ।। गृहीत्वा साधितं प्राग्वत् तद् भस्म स्यादकल्पकम् । चतुर्विधं च तद् भस्म जातिसङ्करवर्जितम् ॥ १०६ ॥ अपरिग्रहमन्येषां कर्मस्पर्शाद्यदूषितम् । लक्ष्णं पूतमरोगं च पात्रस्थं भसितं सितम् ॥ १०७ ॥ आयस्नानयोग्यं स्याद्यथोक्तं ब्रह्मशम्भुना । (क्रियापाद:- तद्भस्म संहितामन्त्रैः शक्त्या लब्धं सुरक्षितम् ॥ १०८ ॥ पात्रात् सङ्गृह्य हस्तेन दक्षिणेनाभिमन्त्रय तु । विशोच्य धारिणीभिस्तु भूतशुद्धिविधानतः ॥ १०९ ॥ षडङ्गेनाभिमन्त्र्यादौ कृत्वा वामकरे पुनः । कृत्वास्त्रेण मलस्नानं मस्तकप्रभृति क्रमात् ॥ ११० ॥ ततस्त्वीशान पुरुषाधारवामैः ससद्यकैः । क्रमान्मूर्धस्य हृद्गुह्य जङ्घान्ताशेषविग्रहम् ॥ १११ ॥ उद्घूलयेद् द्विजोऽन्ये तु ललाटांसहृदादिषु । धारयेयुस्त्रिपुण्ड्राणि तथैव ब्राह्मणादयः ।। ११२ ।। त्रियायुषं धारयेयुर्वेदप्रामाण्यदर्शनात् । “त्रियायुषं जमदग्नेः काश्यपस्य त्रियायुषम्" इत्यादिश्रुतेः । आग्नेयस्नानाधिकारः ।