पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

३६ ईशान शिवगुरुदेव पद्धतौ इन्द्राग्निवैवस्वतराक्षसेशतोयेशवाय्वर्थपतींश्च सोमम् । [क्रियापादः ईशाह्वयं वेधसमप्यनन्तं प्राग्वत् स्वनाम्ना दश तर्पयेत् तान् ॥ ८२ ॥ 'तत्र सोमं धनदादीशि इन्द्रेशानयोर्मध्ये ब्रह्माणमूर्ध्वदिक्पतिं निर्ऋति- वरुणयोर्मध्येऽनन्तं मधोदिक्पतिं विद्यादित्युपदेशः । इति दिक्पतितर्पणम् । अत्रिस्तद्वत् कौशिकाख्यः पुलस्त्यो भारद्वाजश्वाङ्गिराः स्याद् वसिष्ठः । दक्षोऽथान्यः स्याद् भृगुर्वै मरीचिश्चैतान् प्राग्वत् तर्पयित्वा ऋतुं च ।। सनकं च सनातनं सनन्दं भृगुसंज्ञं च सनत्कुमारपैलौ । सह पञ्चशिखेन तर्पयामीत्यभिधानादिनमोन्तकं पृथक् स्यात् ॥ इति योगिमनुष्यान् । शिवं च रुद्रं श्रियमप्युमां च ब्रह्माणमग्निं च तथैव विष्णुम् । वायुं च सूर्यं त्वथ धर्मसेोमावीशानमेतानथ तर्पयेच्च ॥ ८५ ॥ इति सिद्धान् । आदित्यं च तथा सोममङ्गारकबुधावपि । गुरुं शुक्रं शनिं राहु केतुं चेति नव ग्रहान् ॥ ८६ ॥ चतुर्थ्यन्तं स्वनामभिर्नमोन्तं तर्पयेत् । ओं सर्वेभ्यो भूतेभ्यो वषट् नमः इति सर्वभूतानि सन्तर्प्य ततोऽपसव्यं तिलदर्भतोयैः पितॄन् स्वतीर्थेन तु तर्पयित्वा । सोमः पितृमान् यमोऽङ्गिरस्वानग्निः कव्यवाहनादयो ये पितरः तान् पितृन् स्वधा नमस्तर्पयामि । पितृपत्नीः पितृगणान् पत्नीः पितृगणस्य च । ततः स्वनामगोत्राभ्यां स्वपितृनपि तर्पयेत् ॥ ८७ ॥ स्वधा नमस्तर्पयामीत्यन्ते नाम्ना नियोजयेत् । पितृन् पितामहांश्चापि तथैव प्रपितामहान् ॥ ८८ ॥ मातृः पितामहीश्चैव तथैव प्रपितामहः । मातामहांस्तथा मातुस्तर्पयेच्च पितामहान् ।। ८९ ॥