पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

३४ ईशानशिवगुरुदेवपद्धतौ पञ्चब्रह्मोदिता मुद्रा न्यासेष्वेवं क्रमोदिताः । ताभिर्मूर्घास्यहृद्गुह्यपादाद्या मस्तकांस्तनोः ॥ ६२ ॥ ईशानादीन् स्वमन्त्रैस्तु मूर्ध्नि मस्तकपूर्वतः । दक्षिणे चोचरे पश्चाद् भागेषु शिरसो न्यसेत् ॥ ६३ ॥ स्वाङ्गानि हृदयादीनि स्वेषु स्थानेषु विन्यसेत् । पञ्चब्रह्ममुखं स्वैक्यं विद्यादेहं सदाशिवम् ॥ ६४ ॥ सन्ध्योपास्याचनादौ च शिवोऽहमिति भावयेत् । सकलीकरणाधिकारः । अत्र कालोत्तरे - - "कृतविद्यातनुः सन्ध्यां ध्यात्वा कालक्रमेण तु । उपस्थितारुणश्वेतश्यामलाभां विभागशः ॥ ब्रह्मादिकारणोपाधिभेदभिन्ना विभाविनी । साक्षिणी कर्मणां शम्भोः शक्तिः सन्ध्येति गीयते ॥ तत्प्रभामण्डलाभोगप्रविष्टामात्मनस्तनुम् । कुर्यात् " इति । तद्यथा - हंसारूढां स्वतेजोगणमणिवसनालेपनामब्जनेत्रां [क्रियापाद: वेदास्यामक्षमालां स्रवमथ कलशं दण्डमप्यादधानाम् । ध्यायेद् दोर्भिश्चतुर्भिस्त्रिभुवनजननीं पूर्वसन्ध्यां तु वन्द्यां सावित्रीमृक्सवित्रीमभिनववयसं मण्डले चण्डरश्मेः ॥ ६५ ॥ तारूढाम्बुजाक्षी शतमखमणिभा शङ्खचक्रे दधाना दोर्भिर्युक्ता चतुर्भिः स्थितिरिह जगतां या यजूंष्युद्गिरन्ती । व्यालोलानेकहारद्युतिरुचिरुचिरा वैष्णवी मध्यमेऽह्नः सावित्री ध्येयरूपा विलसति सवितुर्मण्डले पीतवस्त्रा ।। ६६ । पञ्चास्यां पिङ्गविद्युत्ततिरुचिरजटामण्डलां चन्द्रमौलिं रङ्गद्भूषाभुजङ्गोत्फणमणिकिरणोद्भासिभस्माङ्गरागाम् । ध्यायेत् खट्वाङ्गशूलाभयवरदकरां व्याघ्रचर्माम्बराढ्यां सावित्रीं सत्रिनेत्रां परिणतवयसं सामसुर्ति दिनान्ते ।। ६७ ।। प्रतिसन्ध्यं क्रमात् सन्ध्यां पृथग्रूपां विचिन्त्य तु ॥ ६८ ॥