पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

३२(क्रियापादः तद्यथा ईशान शिवगुरुदेवपद्धतौ अङ्गुल्यग्रे दैवमङ्गुष्टमूले ब्राह्म तीर्थं पर्वसन्धिष्वथार्षम् |

प्राजापत्यं स्यात् कनिष्ठामधोऽथ पित्र्यं तर्जामूलदेशे द्विजानाम् ॥ ४१ ॥ हस्ते तूक्तं दक्षिणे ततले स्यादाग्नेयाख्यं तीर्थमन्यत्र सौम्यम् । दैवं चान्यत् कर्म कुर्यात् स्वतीर्थादाचामेत्तु ब्रह्मतीर्थेन तोयैः ॥ ४४ ॥ ज्येष्ठाग्राऽग्निस्तर्जनीमूर्ध्नि वायुर्मध्याऽर्कोऽनामिकाग्रे सुरेन्द्रः । प्राजापत्यः स्यात् कनिष्ठेति देवैरङ्गुल्यः स्युर्दक्षिणे विप्रपाणौ ॥ ४५ ॥ अत्र विप्रशब्दग्रहणमुपलक्षणं दीक्षितानां द्विजातीनामित्यर्थः । प्राग्वक्रो वोदङ्मुखः सोपवीतो बद्ध्वा चूडां जानुमध्यस्थबाहुः । तोयापेक्षी सूपविष्टोऽथ मौनी स्यादाप्रहरत्वेकधीराचमिष्यन् ॥ ४६ ॥ अदुष्टरसगन्धाद्यैरकीटाफेनबुद्बुदैः । अनुष्णैरम्बुभिः शुद्धैराचामेदभिवीक्षितैः ॥ ४७ ॥ आत्मविद्याशिवैस्तत्त्वैरीश्वरायनमोन्तकैः । प्रणवाद्यैः पृथग्युक्तं त्रिः पिबेदम्बु वीक्षितम् ॥ ४८ ॥ हस्तं गोकर्णवत् कृत्वा यवमग्नमितं जलम् । पिबेदशब्दवद् ब्रह्मतीर्थेन त्रिर्यथोदितम् ॥ ४९ ॥ ओष्ठावस्त्रेण सम्मृज्य खानि सर्वात्मना स्पृशेत् । कालोत्तरटीकायां - - "हृत्कण्ठास्यगताः पुनन्ति विविनैवापो द्विजातीन् क्रमात् त्रिः पीता वृषलस्त्रियावपि तथा कुण्डानुलोमादिकान् । आचम्य त्रिरपस्त्रिवेदपुरुषाः प्रीणन्ति निर्मार्ष्टि यद् द्विः साथर्वषडङ्गयज्ञपुरुषाः प्रीताः स्युरप्यग्नयः ॥ प्रीणात्यर्कमनामिका नयनयोः स्पर्शात् तथाङ्गुष्ठयुक् साङ्गुष्ठा त्वथ तर्जनी सगमिता घ्राणद्वये मारुतान् । अङ्गुष्टेन कनिष्ठिका श्रवणयेोराशां च नाभेर्वसू- नात्मानं तु हृदयोर्दिवमृषीन् मूर्ध्नः समस्ताङ्गुलैः || ” इत्थं सम्यग् द्विः समाचम्य शुध्येदुच्छिष्टे वा क्षालने पादयोश्च । कक्ष्यामोक्षे वा शिखाबन्धमोक्षे निष्ठीवे वा जृम्भिकायां क्षुते च ॥ ५० ॥ .