पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

स्नानाचमनाधिकारः] उत्तरार्धे तृतीयः पटलः । ततोऽम्भस्तमागत्य कौपीनं मेखलामपि । परिवर्त्यथवा शुक्ले वाससी परिधापयेत् ॥ ३२ ॥ यथा ब्रह्मशम्भुः - " द्वितीयं हस्तविस्तीर्ण कौपीनं ब्रह्मचारिणाम् । त्रयोदशाक्षसङ्कोचं सत्सूत्रगुणमेखलम् ॥” ब्रह्मचारिग्रहणमुपलक्षणं यतीनां लिङ्गिनामपीत्यर्थः स्नातो नाङ्गानि निर्मृज्यात् पाणिना वार्द्रवाससा । तथा नेक्षेत पाषण्डिपातकिश्वान्त्यजाशुचीन् ॥ ३३ ॥ प्रमादाद् यदि वीक्षेत पुनः स्नात्वा विशुध्यति ! चिताचण्डाल्यूपश्वचितिकाष्ठादिरासभान् ॥ ३४ ॥ वराह कुक्कुटोदक्यासृगालोलूकवायसान् । सूतकीशावकाशौचिमहापातकिनोऽशुचीन् ॥ ३५ ॥ स्पृष्टा देवलकं चापि सचेलो जलमाविशेत् । नैमित्तिकेषु कृत्येषु ग्रहणेन्दुक्षयादिषु ॥ ३६ ॥ अयनद्वयतीर्थादौ सचेलः स्नातुमर्हति । सन्ध्यासु वपने शुक्लविण्मूत्रोच्छिष्टकुष्ठिनाम् ॥ ३७ ॥ सम्पर्के वमने चाब्धेः स्पर्शने चाप्यपर्वणि 1 वृषलप्रतिलोमानां मार्जारस्पर्शनेऽपि च ॥ ३८ ॥ श्मश्रुकर्मणि चोत्तीर्य नदीं वारुणमाचरत् । दानादौ स्नानजप्यादौ तर्पणे हवनेऽपि वा ॥ ३९ ॥ सर्वत्र सपवित्रः स्यादन्यथा स्यात् तदासुरम् । यद्वा मुक्तशिखो नमः प्रलपन् वावगुण्ठितः ॥ ४० ॥ करोति कृत्यं दैवादि सर्वं विद्यात् तदासुरम् । अथानुदित आदित्ये सन्ध्यावन्दनमाचरेत् ॥ ४१ ॥ तत्र पूर्वं तु मृत्तोयैः क्षालिताङ्घ्रिकरद्वयः । ३१